This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
२१३
 
किं कर्तव्यमितोऽपि केवलमिह श्रान्तोऽस्मि शान्तोऽस्मि च

प्राप्तं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम् ॥ २९ ॥
 

 
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः 'मैवमाखण्डल मैवम् ।

 
त्वमसि शतऋतुस्त्वमसि नीतिपथे कुशलः
 

त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः ।

अपि खलु बालकेन भवता भवता मघवन्
 

निखिलमनाकुलं कुलमिदं [‌‍^१]प्रतितिष्ठते नः ॥ ३० ॥
 

 
[commentary]
 
भ्रातर इत्यर्थ:थः । 'प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । त्रिलोका
एव त्रैलोक्यं तस्य यद्राज्यं राजभावः तस्यार्पणात् भवदधीनकरणाद् गुरवः
यूयं ज्येष्टभ्रातृत्वात्तेषां गुरुत्वमिति भावः । आराद्धाः पूजिता वा । राधतेरनु -
दात्तत्वात् इडागमाभावः । शक्तित:तः गुरुभार्गवप्रभृतयः गुरुशुक्रादयः ब्रह्मर्षयः

आराद्धाः पूजिता एव । यथाशक्ति तानपि पूजितवानस्मि, नमस्कारवन्दनादि-
भिरिति भावः । इह इदानीम् इतोऽन्यत् केवलं किं कर्तव्यं कोऽपि कर्तव्यांशः
नावशिष्ट इति भावः । श्रान्तः श्रमवानस्मि, तप आदिकं कृत्वेति भावः ।
शान्तोऽस्मि निगृहीतान्तरिन्द्रियश्चास्मि, सर्वत्र तुच्छबुद्ध्येति भावः । तत्तादृशं
परममुत्कृष्टम्, अमृतं सुधां प्राप्तुं आज्ञा निदेश:शः यदि भवति स्याच्चेदिति तात्पर्यार्थः ।
सुखमनायासं यथा तथा यतिष्ये यत्नं करिष्ये ॥ इतीति ॥ इति इत्थं वदन्तमा-
भाषमाणं इन्द्रं प्रति असुरेश्वराः दानवश्रेष्ठाः आहुः ऊचुरित्यर्थः ॥ मैवमिति ॥
हे आखण्डल मैवं मैवं एवं मा वक्तव्यमित्यर्थः ॥ त्वमिति ॥ त्वं शतं क्रतवो
यागा यस्य स तथाभूतः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । असि भवसी-
त्यर्थः । त्वं नीतिः नयः । 'नीतिस्स्यात् प्रापणे नये' इति नानार्थमाला ।

तस्याः पन्थाः मार्गः तस्मिन् कुशलः शिक्षितः । 'पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते
त्रिषु' इत्यमरः । असि । त्वं भगवतः षड्गुणशालिनः प्रमथानामधिपतेः परमे-
श्वरस्य दयायाः कृपाया:याः आस्पदं भाजनमसि । 'आस्पदं प्रतिष्ठायाम्' (6-1-146 ६.१.१४६)
 
-
 
1.

 
[‌‍^१]
'प्रतितिष्ठते -- ' इति न साधु:धुः । व्याख्यातापि 'प्रतितिष्ठति' -- इति पाठमा-
दायैव व्याचष्टे ॥