2023-06-05 16:40:19 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२१३
किं कर्तव्यमितोऽपि केवलमिह श्रान्तोऽस्मि शान्तोऽस्मि च
प्राप्तं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम् ॥ २९ ॥
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः 'मैवमाखण्डल मैवम् ।
त्वमसि शतऋतुस्त्वमसि नीतिपथे कुशलः
त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः ।
अपि खलु बालकेन भवता भवता मघवन्
निखिलमनाकुलं कुलमिदं प्रतितिष्ठते नः ॥ ३० ॥
भ्रातर इत्यर्थ: । 'प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । त्रिलोका
एव त्रैलोक्यं तस्य यद्राज्यं राजभावः तस्यार्पणात् भवदधीनकरणाद् गुरवः
यूयं ज्येष्टभ्रातृत्वात्तेषां गुरुत्वमिति भावः । आराद्धाः पूजिता वा । राधतेरनु -
दात्तत्वात् इडागमाभावः । शक्तित: गुरुभार्गवप्रभृतयः गुरुशुक्रादयः ब्रह्मर्षयः
आराद्धाः पूजिता एव । यथाशक्ति तानपि पूजितवानस्मि, नमस्कारवन्दनादि-
भिरिति भावः । इह इदानीम् इतोऽन्यत् केवलं किं कर्तव्यं कोऽपि कर्तव्यांशः
नावशिष्ट इति भावः । श्रान्तः श्रमवानस्मि, तप आदिकं कृत्वेति भावः ।
शान्तोऽस्मि निगृहीतान्तरिन्द्रियश्चास्मि, सर्वत्र तुच्छबुद्धयेति भावः । तत्तादृशं
परममुत्कृष्टम्, अमृतं सुधां प्राप्तुं आज्ञा निदेश: यदि भवति स्याचेदिति तात्पर्यार्थः ।
सुखमनायासं यथा तथा यतिष्ये यत्नं करिष्ये ॥ इतीति ॥ इति इत्थं वदन्तमा-
भाषमाणं इन्द्रं प्रति असुरेश्वराः दानवश्रेष्ठाः आहुः ऊचुरित्यर्थः ॥ मैवमिति ॥
हे आखण्डल मैवं मैवं एवं मा वक्तव्यमित्यर्थः ॥ त्वमिति ॥ त्वं शतं क्रतवो
यागा यस्य स तथाभूतः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । असि भवसी-
त्यर्थः। त्वं नीतिः नयः । 'नीतिस्स्यात् प्रापणे नये' इति नानार्थमाला ।
तस्याः पन्थाः मार्गः तस्मिन् कुशलः शिक्षितः । 'पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते
त्रिषु' इत्यमरः । असि । त्वं भगवतः षड्गुणशालिनः प्रमथानामधिपतेः परमे-
श्वरस्य दयायाः कृपाया: आस्पदं भाजनमसि । 'आस्पदं प्रतिष्ठायाम्' (6-1-146 )
-
1. 'प्रतितिष्ठते – ' इति न साधु: । व्याख्यातापि 'प्रतितिष्ठति' - इति पाठमा-
दायैव व्याचष्टे ॥