This page has been fully proofread twice.

भार्गवम्, अनुमतो वाचस्पतिना, किरन्निव सुधारसम्, किञ्चिदिदमाचचक्षे ।
 
'साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं
साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः ।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्भ्रातृभिः
ज्यायोभिर्यदहं विरोचनमुखैवात्सल्यपात्रीकृतः ॥ २८ ॥
 
अपि च ।
 
आराद्धा ननु यूयमेव गुरवस्त्रैलोक्यराज्यार्पणात्
आराद्धा गुरुभार्गवप्रभृतयो ब्रह्मर्षयः शक्तितः ।
 
[commentary]
 
कृतसम्मतिस्सन्नित्यर्थः । सुधारसम् अमृतरसं, किरन् आकिरन्निव किञ्चिदिदं वचनं आचचक्षे आचख्यौ । अथासुरान् प्रति इन्द्रः किमाख्यातवानिति चेदत आह ॥ साफल्यमिति ॥ श्रीमान्यः काश्यप एव तातपादः अस्मद्गुरुः तस्य यच्चरणस्थानं तस्योचितैरर्हैः । 'पितृसमो ज्येष्ठ' इति न्यायादिति भावः । ज्यायोभिरग्रजैः । 'वर्षीयान् दशमी ज्यायान् पूर्वजस्त्वग्रजोऽग्रजः' इत्यमरः । विरोचनमुखैः विरोचनादिभिः भ्रातृभिस्सोदरैः अहमिन्द्रः वात्सल्यस्य प्रेम्णः पात्रीकृतः भाजनीकृत इति यत् तदिदं सुमहतामत्यधिकानां तपसाम् अस्मदनुष्ठितकृच्छ्रचान्द्रायणादीनां साफल्यं सफलत्वम् । फलमिति यावत् । इदमक्ष्णां सहस्रसङ्ख्यानामपीति शेषः । पितुः काश्यपस्य या आशिषः शुभवाचः अभिलाषा वा । 'आशीरुरगदंष्ट्रायां शुभवागभिलाषयोः' इति नानार्थमाला । 'आशीर्हिताशंसाहिदंष्ट्रयोः' इत्यमरश्च । इदं साफल्यं इदमस्य आयुषः जीवितकालस्य । 'आयुर्जीवितकालो ना जीवातुर्जीवनौषधम्' इत्यमरः । साफल्यं सफलत्वमिति यावत् । 'एति जीवन्तमानन्दो नरं वर्षशतादपि' इति न्यायादिति भावः । यद्यप्यत्र[‌‍^१] सोदरप्रेमभाजनीभवनं तपआदीनां न फलम्, तथापि तस्य उद्देश्यत्वकृच्छ्रसाध्यत्वादिधर्मसम्बन्धनिमित्ते तपआदिफलत्वोत्प्रेक्षणात् फलोत्प्रेक्षालङ्कारः । स च व्यञ्चकाप्रयोगाद्गम्यः ॥ आराद्धा इति ॥ ननु भो बलिप्रमुखाः
 
[‌‍^१] अलङ्कारस्य व्यङ्ग्यत्वमत्रेति, अस्याः चम्प्वाः उत्तमकाव्यत्वम्, वस्त्वलंकाररसत्रयव्यङ्ग्यप्राधान्यात् उत्तमोत्तमकाव्यत्वं च स्पष्टयति ॥