This page has not been fully proofread.

२१२
 
नीलकण्ठविजये सव्याख्याने
 
भार्गवम्, अनुमतो वाचस्पतिना, किरन्निव सुधारसम्, किञ्चिदिद-
माचचक्षे ।
 
'साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं
 
साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः ।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्भ्रातृभिः
ज्यायोभिर्यदहं विरोचनमुखैवात्सल्यपात्रीकृतः ॥ २८ ॥
 
अपि च ।
आराद्धा ननु यूयमेव गुरवस्त्रैलोक्य राज्यार्पणात्
आराद्धा गुरुभार्गवप्रभृतयो ब्रह्मर्षयः शक्तिः ।
 
कृतसम्मतिस्सन्नित्यर्थः । सुधारसम् अमृतरसं, किरन् आकिरन्निव किञ्चिदिदं
वचनं आचचक्षे आचख्यौ । अथासुरान् प्रति इन्द्रः किमाख्यातवानिति
चेदत आह ॥ साफल्यमिति ॥ श्रीमान्यः काश्यप एव तातपाद: अस्मद्गुरुः
तस्य यचरणस्थानं तस्योचितैरहै: । 'पितृसमो ज्येष्ठ' इति न्यायादिति भावः ।
ज्यायोभिरग्रजैः। 'वर्षीयान् दशमी ज्यायान् पूर्वजस्त्वग्रजोऽग्रज : ' इत्यमरः ।
विरोचनमुखैः विरोचनादिभिः भ्रातृभिस्सोदरैः अहमिन्द्रः वात्सल्यस्य प्रेम्णः
पात्रीकृत: भाजनीकृत इति यत् तदिदं सुमहतामत्यधिकानां तपसाम् अस्मदनुष्ठित-
कृच्छचान्द्रायणादीनां साफल्यं सफलत्वम् । फलमिति यावत् । इदमक्ष्णां
सहस्रसङ्ख्यानामपीति शेष: । पितुः काश्यपस्य या आशिष : शुभवाच: अभिलाषा
वा । 'आशीरुरगदंष्ट्रायां शुभवागभिलाषयोः' इति नानार्थमाला । 'आशी-
हिंताशंसाहिदंष्ट्रयोः' इत्यमरश्च । इदं साफल्यं इदमस्य आयुषः जीवितका-
लस्य । 'आयुर्जीवितकालो ना जीवातुर्जीवनौषधम्' इत्यमरः । साफल्यं सफल-
त्वमिति यावत् । 'एति जीवन्तमानन्दो नरं वर्षशतादपि' इति न्यायादिति
भावः । यद्यप्यत्र ' सोदरप्रेमभाजनीभवनं तपआदीनां न फलम् तथापि तस्य
उद्देश्यत्वकृच्छ्रसाध्यत्वादिधर्मसम्बन्ध निमित्ते तपआदिफलत्वोत्प्रेक्षणात् फलोत्प्रेक्षा-
लङ्कारः । स च व्यञ्चकाप्रयोगाद्गम्यः ॥ आराद्धा इति ॥ ननु भो बलिप्रमुखाः
 
,
 
1. अलङ्कारस्य व्यङ्ग्यत्वमत्रेति, अस्याः चम्प्वाः उत्तमकाव्यत्वम्, वस्त्वलंकार-
रसवयव्यङ्गयप्राधान्यात् उत्तमोत्तमकाव्यत्वं च स्पष्टयति ॥