We're performing server updates until 1 November. Learn more.

This page has been fully proofread twice.

ततो महता बलेन महता सन्नाहेन महता चावधानेन सन्धातुमागतास्सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणततपोविशेषेण परिक्षीणकल्मषतया दुर्दर्शान् मध्याह्नभास्करानिव, दुरासदान् युगान्तपावकानिव, विस्रम्भणीयान् विश्वसृज इव, पुनः पुनर्दर्शनीयान् पूर्णसुधाकरानिव, संलक्ष्य गीर्वाणान्, सन्त्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानुयात्रिकान्, परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे ।
 
संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्द्य पुरोधसं
 
[commentary]
 
दानवाः किं कृतवन्त इति चेदत आह ॥ तत इति ॥ ततो बृहस्पतिप्रस्थानानन्तरं महता अधिकेन, बलेन मूलभृत्यसुहृच्छ्रेणीविद्वदाटविकाख्यषड्विधसैन्येनेत्यर्थः । 'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः' इत्यमरः । महता सन्नाहेन प्रयत्नेन महताऽवधानेन ऐकाग्र्येण च सन्धातुं सन्धिं कर्तुम्, आगता आयाताः सर्वेऽपि दानवाः असुराः प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु'
इति नानार्थमाला । तया कुटिला वक्रा अपि परिणतानि परिपक्वानि । फलाभिमुखानीति यावत् । यानि तपांसि तेषां विशेषेण अभिव्यक्त्या । 'विशेषोऽवयवे व्यक्तौ' इति नानार्थमाला । अथवा विशेषोऽतिशयः तेन परिक्षीणानि विनष्टानि कल्मषाणि कालुष्याणि येषां तेषां भावस्तता तया । दुर्दर्शान् दुःखेन द्रष्टुं शक्यानित्यर्थः । 'ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' (३.३.१२६) इति खल्प्रत्ययः । अत एव मध्याह्नः अह्नो मध्यभागः तस्मिन् समये ये भास्कराः तानिव स्थितान् । दुरासदान् दुरधिगमान् युगान्ते येऽग्नयः तानिव स्थितान् । विस्रम्भयितुं विश्वसितुं योग्याः विस्रम्भणीयाः तथाभूतान् विश्वसृजः नवप्रजापतीनिव स्थितान् । 'विधाता विश्वसृड्विधिः' इत्यमरः । पुनः पुनः द्रष्टुं योग्याः दर्शनीयाः तथाभूतान्पूर्णसुधाकरान् पूर्णचन्द्रानिव स्थितान् गीर्वाणान्, संलक्ष्य दृष्ट्वा, दुर्विशङ्कितानि दुरध्यवसायान्, सन्त्यज्य त्यक्त्वा [‌‍^१]अनुयातृकान् अनुचरान् प्रतिषिध्य निरुध्य । अन्यत्र स्थापयित्वेति भावः । शस्त्राणि परिहृत्य विसृज्य निर्मलेन द्वेषादिलक्षणमलरहितेन, मनसा अन्तःकरणेन उपलक्षिताः निरन्तरमनवकाशं यथा तथा परिरेभिरे आलिलिङ्गुरित्यर्थः ॥ संक्रन्दन इति ॥ संक्रन्दनः इन्द्रः यथान्यायं न्यायः सम्प्रदायः तमनतिक्रम्येत्यर्थः । दानवैस्समागम्य मिळित्वा पुरोधसं पुरोहितं, भार्गवं शुक्रम्, अभिवन्द्य नमस्कृत्य, वाचस्पतिना गुरुणा, अनुमतः
 
[‌‍^१] 'अनुयात्रिकान्' इति मूलपाठः ।