2023-08-07 07:11:51 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तृतीयाश्वासः
  
  
  
   
  
  
  
  २११
  
  
  
   
  
  
  
  ततो महता बलेन महता सन्नाहेन महता चावधानेन सन्धातु-
  
  
  
  मागतास्सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणततपोविशेषेण परि-
  
  
  
  वीक्षीणकल्मषतया दुर्दर्शान् मध्याह्न भास्करानिव, दुरासदान् युगान्तपाव-
  
  
  
  कानिव, विस्रम्भणीयान् विश्वसृज इव, पुनः पुनर्दर्शनीयान् पूर्णसुधा-
  
  
  
  करानिव, संलक्ष्य गीर्वाणान्, सन्त्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानु -
  
  
  
  यात्रिकान्, परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्द्य पुरोधसं
  
  
  
   
  
  
  
  12
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  दानवाः किं कृतवन्त इति चेदत आह ॥ तत इति ॥ ततो बृहस्पतिप्रस्थाना-
  
  
  
  नन्तरं महता अधिकेन, बलेन मूलभृत्यसुहृच्छ्रेणीविद्वदाट विकाख्यषड्डिविधसैन्येनेत्यर्थः ।
  
  
  
   'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणो: णोः' इत्यमरः । महता सन्नाहेन प्रयत्नेन
  
  
  
   महताऽवधानेन ऐकाग्रर्येण च सन्धातुं सन्धिधिं कर्तुम्, आगता आयाताः सर्वेऽपि
  
  
  
   दानवाः असुराः प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु'
  
  
  
  
  
  
  
  इति नानार्थमाला । तया कुटिला वक्रा अपि परिणतानि परिपक्वानि ।
  
  
  
   फलाभिमुखानीति यावत् । यानि तपांसि तेषां विशेषेण अभिव्यक्तत्या । 'विशेषो-
  
  
  
  ऽवयवे व्यक्तौ' इति नानार्थमाला । अथवा विशेषोऽतिशयः तेन परिक्षीणानि
  
  
  
   विनष्टानि कल्मषाणि कालुष्याणि येषां तेषां भावस्तता तया । दुर्दर्शान् दुःखेन द्रष्टुं
  
  
  
   शक्यानित्यर्थः । 'ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' (3-3-126३.३.१२६) इति खल्प्रत्ययः ।
  
  
  
   अत एव मध्याह्नः अह्नो मध्यभागः तस्मिन् समये ये माभास्कराः तानिव स्थितान् ।
  
  
  
   दुरासदान् दुरधिगमान् युगान्ते येऽमग्नयः तानिव स्थितान् । विस्रम्भयितुं विश्व-
  
  
  
  सितुं योग्याः विस्रम्भणीयाः तथाभूतान् विश्वसृजः नवप्रजापतीनित्रव स्थितान् ।
  
  
  
   'विधाता विश्वसृडिड्विधिः' इत्यमरः । पुनः पुनः द्रष्टुं योग्याः दर्शनीयाः तथाभूतान्
  
  
  
  पूर्णसुधाकरान् पूर्णचन्द्रानित्रव स्थितान् गीर्वाणान्, संलक्ष्य दृष्ट्वा, दुर्विंविशङ्कितानि
  
  
  
   दुरध्यवसायान्, सन्त्यज्य त्यत्तक्त्वा '[^१]अनुयातृकान् अनुचरान् प्रतिषिध्य निरुध्य ।
  
  
  
   अन्यत्र स्थापयित्वेति भावः । शस्त्राणि परिहृत्य विसृज्य निर्मलेन द्वेषादिलक्षण-
  
  
  
  मलरहितेन, मनसा अन्तःकरणेन उपलक्षिताः निरन्तरमनवकाशं यथा तथा
  
  
  
   परिरेभिरे आलिलिङ्गुरित्यर्थः ॥ संक्रन्दन इति ॥ संक्रन्दनः इन्द्रः यथान्यायं
  
  
  
   न्यायः सम्प्रदाय:यः तमनतिक्रम्येत्यर्थः । दानवैस्समागम्य मिळित्वा पुरोधसं
  
  
  
   पुरोहितं, भार्गवं शुक्रम्, अभिवन्द्य नमस्कृत्य, वाचस्पतिना गुरुणा, अनुमतः
  
  
  
  1,
  
  
  
   
  
  
  
  [^१] 'अनुयात्रिकान्' इति मूलपाठः ।
  
  
  
   
  
  
  
  19