2023-06-05 16:40:18 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२११
ततो महता बलेन महता सन्नाहेन महता चावधानेन सन्धातु-
मागतास्सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणततपोविशेषेण परि-
वीणकल्मषतया दुर्दर्शान् मध्याह्न भास्करानिव, दुरासदान् युगान्तपाव-
कानिव, विस्रम्भणीयान् विश्वसृज इव, पुनः पुनदर्शनीयान् पूर्णसुधा-
करानिव, संलक्ष्य गीर्वाणान्, सन्त्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानु -
यात्रिकान्, परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे ।
संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्द्य पुरोधसं
12
दानवाः किं कृतवन्त इति चेदत आह ॥ तत इति ॥ ततो बृहस्पतिप्रस्थाना-
नन्तरं महता अधिकेन, बलेन मूलभृत्यसुहृच्छ्रेणीविद्वदाट विकाख्यषड्डिधसैन्येनेत्यर्थः ।
'स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणो: ' इत्यमरः । महता सन्नाहेन प्रयत्नेन
महताऽवधानेन ऐकाग्रयेण च सन्धातुं सन्धि कर्तुम् आगता आयाताः सर्वेऽपि
दानवाः असुराः प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु'
इति नानार्थमाला । तया कुटिला वक्रा अपि परिणतानि परिपक्वानि ।
फलाभिमुखानीति यावत् । यानि तपांसि तेषां विशेषेण अभिव्यक्तया । 'विशेषो-
ऽवयवे व्यक्तौ' इति नानार्थमाला । अथवा विशेषोऽतिशयः तेन परिक्षीणानि
विनष्टानि कल्मषाणि कालुष्याणि येषां तेषां भावस्तता तया । दुर्दर्शान् दुःखेन द्रष्टुं
शक्यानित्यर्थः । 'ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' (3-3-126) इति खल्प्रत्ययः ।
अत एव मध्याह्नः अह्नो मध्यभागः तस्मिन् समये ये मास्कराः तानिव स्थितान् ।
दुरासदान् दुरधिगमान् युगान्ते येऽमयः तानिव स्थितान् । विस्रम्भयितुं विश्व-
सितुं योग्याः विस्रम्भणीयाः तथाभूतान् विश्वसृजः नवप्रजापतीनित्र स्थितान् ।
'विधाता विश्वसृडिधिः' इत्यमरः । पुनः पुनः द्रष्टुं योग्याः दर्शनीयाः तथाभूतान्
पूर्णसुधाकरान् पूर्णचन्द्रानित्र स्थितान् गीर्वाणान् संलक्ष्य दृष्ट्वा, दुर्विंशङ्कितानि
दुरध्यवसायान्, सन्त्यज्य त्यत्तवा 'अनुयातृकान् अनुचरान् प्रतिषिध्य निरुध्य ।
अन्यत्र स्थापयित्वेति भावः । शस्त्राणि परिहृत्य विसृज्य निर्मलेन द्वेषादिलक्षण-
मलरहितेन, मनसा अन्तःकरणेन उपलक्षिताः निरन्तरमनवकाशं यथा तथा
परिरेभिरे आलिलिङ्गुरित्यर्थः ॥ संक्रन्दन इति ॥ संक्रन्दनः इन्द्रः यथान्यायं
न्यायः सम्प्रदाय: तमनतिक्रम्येत्यर्थः । दानवैस्समागम्य मिळित्वा पुरोधसं
पुरोहितं, भार्गवं शुक्रम्, अभिवन्द्य नमस्कृत्य, वाचस्पतिना गुरुणा, अनुमतः
1, 'अनुयात्रिकान्' इति मूलपाठः ।
19