This page has been fully proofread twice.

रमुखान् बर्हिर्मुखान् ।
 
आख्याय निखिलं वृत्तमाशयं च विरोधिनाम् ।
आदितेयान् स दैतेयैः सन्धातुं समनीनहत् ॥ २७ ॥
 
[commentary]
 
तु ॥ भस्मस्नानं ततः कुर्यात् जन्मकर्मनिवृत्तये । 'अग्निः' इत्यादिभिर्मन्त्रैः 'सद्योजाता'दिमन्त्रतः ॥ सर्वाङ्गोद्धूळनं कुर्यादापादतलमस्तकम् । भर्त्सनात् सर्वपापानां भासनात् परमात्मनः ॥ भस्मेति गीयते सद्भिर्वेदान्तेष्वागमेषु च । त्रिपुण्ड्रं धारयेत् पश्चाद्भस्मना सजलेन च ॥ श्रीमत्पञ्चाक्षरेणैव मन्त्रैरेभिष्षडानन । ललाटे भगवान् ब्रह्मा हृदये हव्यवाहनः ॥ नाभौ स्कन्दो, गळे पूषा, बाहुमूले तु दक्षिणे । रुद्रादित्यास्तथा मध्ये मणिबन्धे शचीपतिः ॥ वामनो वामभागे तु मध्ये चैव प्रभञ्जनः । वासवो मणिबन्धे तु पृष्ठदेशे हरस्स्वयम् ॥ शिरस्यात्मा महादेवः परामात्मेति विश्रुतः । त्रिपुण्ड्रधारणं कृत्वा -- ॥"' इत्यादिना प्रदर्शितानि । प्रालम्बिन्यो लम्बमानाः या जटाः मूलापरपर्यायाः न्यग्रोधादिवृक्षेषु शाखाऽधोभागे डोलारज्जुवल्लम्बमानाः । 'अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा' इत्यमरः । तासां जूटाः सङ्घाताः तेषां ये वलयाः मण्डलानि तानवलम्बिता आश्रिताः । कर्तरि क्तः । ये शकुनाः पक्षिणः तेषां निनादाः ध्वनय एव शकुनानि भाविशुभसूचकोपश्रुत्यादीनि तैरावेदिताः परिज्ञापिताः शाम्भवाः शम्भुसम्बन्धिनः प्रसादा अनुग्रहा येषां ते तथाभूतान् । शुद्धानां सतामध्वानो मार्गास्तेषु वर्तितुं शीलं येषां ते तथाभूतान् । विज्ञानानि शिल्पानि शास्त्राणि सागराः निधयः । 'विज्ञानं शिल्पशास्त्रयोः' इत्यमरः । विज्ञानकलमानिति पाठे विज्ञानस्य ध्यानादिलक्षणस्य
कलमाः शालयः ता इव स्थिता इत्यर्थः । तान् शुनासीरमुखान् इन्द्रादीन्बर्हिर्मुखा देवाः । 'बर्हिर्मुखाः क्रतुभुजः' इत्यमरः । तान् सन्ददर्श दृष्टवान् । अथ गुरुर्मन्दरं प्राप्य, किं कृतवानिति चेदत आह ॥ आख्यायेति ॥ स बृहस्पतिः अखिलं समस्तं वृत्तं निष्पन्नार्थं विरोधिनां प्रतिपन्थिनाम् आशयम् अभिप्रायं च आख्याय उक्त्वा आदितेयाः देवाः । 'कृदिकारादक्तिनः' (वा- ४.१.४५) इति ङीषन्तात् दितिशब्दात् 'स्त्रीभ्यो ढक्' (४.१.१२०) इति ढक्प्रत्ययः । तान् दैतेयाः दानवाः । पूर्ववत् ढक्प्रत्ययः । तैस्सह सन्धातुं सन्धिं कर्तुं समनीनहत् संन्नाहयामासेत्यर्थः । बृहस्पतिप्रस्थानानन्तरं