This page has not been fully proofread.

तृतीयाश्वासः
 
२०९
 
मनोहरान्, प्रालम्बिजटाजूटवलयावलम्बित
तसन्निहितशाम्भवप्रसादान्, शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासी-
'शकुनिकुलनादशकुनावेदि-
प्रमुच्यते ॥' इति । शिवस्य कथा: त्रिपुरहननादिप्रस्तावाः तासां परायणाः
मुख्याश्रया इत्यर्थः । 'अयनं निलये वर्त्मनि' इति नानार्थमाला । यद्वा
शिवकथानां पारायणेषु परायणा जागरूका इत्यर्थः । शिवोऽहं शिवोऽहम् इति
मयूरव्यंसकादित्वात्समासः । शिवोऽहमिति भावः अभिप्रायः । 'भावोऽभिप्राय
आशयः' इत्यमरः । तेन भाविता: सम्भाविता इत्यर्थः । शोधिता इति वाऽर्थः ।
अथवा, शिवाहम्भावे शिवाहम्भावबुद्धौ भावितान् स्थापितानित्यर्थः। णिजन्ताद्भवतेः
कर्तरि क्तः । इतरानुपदिश्य तानपि शिवाहंभावे स्थापयन्तीति भावः । यद्वा
शिवाहंभावस्य शिवः केवलोऽहमिति बुद्धेः भाविताः भावयन्त इत्यर्थः । विग्रहे
कर्मणि षष्ठी बोध्या । सदाशिवोऽहम् इति बुद्धिधारा अस्यन्त इति भावः ।
भस्मभिः दिग्धानि लिप्तानि तनूरुहाणि लोमानि येषां ते तथाभूतान् । भस्मच्छ-
न्नत्वाद्भस्मशायित्वाच्चेति भाव: । द्वितैव द्वैतम् । स्वार्थे अण्प्रत्ययः । न द्वैतमद्वैतं
नञसमास: । शिवाद्वैतं शिवस्या द्वितीयमित्यर्थः । तस्य वादः कथनम् । व्यक्तवाग्-
वाचकाद्वदतेर्भावे घञ्प्रत्ययः । तस्मिन् कोविदाः बुधाः । 'विद्वान् विपश्चिद्दोष-
ज्ञस्सन् सुधी: कोविदो बुधः' इत्यमरः । तथाभूतान् । व्यवयवाश्च ते पुण्ड्राश्चेति
शाकपार्थिवादित्वात्समासः । ततः भसितेन त्रिपुण्ड्रा इति तत्पुरुषः । रेखात्रयसमुदायः
पुण्डूशब्देन विवक्षितः । 'पुण्ड्रोदकेक्षुतिलक भेद क्रिम्यतिमुक्तयोः' इति नानार्थ-
माला । तैः मण्डितानि भूषितानि यानि पञ्चाष्टादिस्थानानि तैर्मनोहरान् दर्शनीयाः
तथाभूतान् । अत्र त्रिपुण्ड्रशब्दस्य शाकपार्थिवादित्वानाश्रयणे 'तद्धितार्थ –'(2-1-51)
इत्यादिना समाहारसमासे अकारान्तोत्तरपदत्वेन 'द्विगो: ' ( 4-1-21) इतीकारे
त्रिपुण्ड्रीति स्यात् । अत एव 'द्विगोर्लुगनपत्ये' (4-1-88) इत्यत्र त्र्यवयवा विद्या
त्रिविद्या तामधीते त्रैविद्यः न तु तिस्रो विद्या अधीते इत्यणप्रत्ययः । 'तद्धितार्थ - '
(2-1-51) इत्यादिना समासः । अत एव भाष्यकार: 'अत्र अण्प्रत्ययस्य लुगभावः'
इत्याह । भस्मधारणप्रकार: भस्मधारणस्थानानि च 'शङ्करसंहितायामुपरिभागे-
ध्यायेच्छिवं जलाध्यक्षं 'ओमापस्सर्व' मित्यपि । शङ्करं भस्मनि तथा श्रीमत्पञ्चाक्षरेण
 
N - 27
 
-
 
a. 'शकुनिनिनादशकुन' इति व्याख्यापाठः ।
 
[शितः॥
 
1. शङ्करसंहितोक्तः भस्मधारणप्रकार: शैवानामावश्यकः व्याख्यालानुगृह्य प्रद-