This page has been fully proofread twice.

शिवकथापारायणपरायणान्, शिवाहम्भावभावितान्, शिवाद्वैतवादकोविदान्, भस्मदिग्धतनूरुहान्, भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थान-
 
[commentary]
 
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । नाहं किमपि जानामि स्वतः प्रीतो भव प्रभो ॥ प्रायश्चित्तं वैदिकानां यागानामपि कर्मणाम् । शिवस्मरणमेवेति श्रुतिरप्यस्ति शङ्कर ।' इति । प्रकृतमनुसरामः । शिवार्चनस्वरूपं किञ्चिदुक्त्वा किञ्चिच्छिवव्रतस्वरूपमुच्यते । 'दश [‌‍^१]शैवव्रतान्याहुः जाबालश्रुतिपारगाः । प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ॥ कालाष्टम्यां तु तत्त्याज्यं भोजनं यत्नपूर्वकम् ॥ अवश्यं सितभूतायां कर्तव्यं निशि भोजनम् । असितायां तु भूतायां तन्न कार्यं द्विजातिभिः ॥ एकादश्यां सितायां तु त्याज्यं भोजनमास्तिकैः । असितायां तु भोक्तव्यं रात्रावेव प्रयत्नतः ॥ शिवलिङ्गार्चनं कृत्वा स्वशक्त्या यत्नपूर्वकम् । निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ॥ उपोषणादि नान्यस्मिन् दिवसे नियमो ह्ययम् । पर्वण्यपि दिने त्याज्यं भोजनं सोमवासरे ॥ किमुतान्येषु दिवसेष्विति जाबालवादिनः । ससोमा सितभूता या सार्द्रापातसमन्विता ॥ तस्यामुपोषणं कार्यं निशि जागरणं तथा । भोजनीयः प्रयत्नेन शैवो भक्तिपुरस्सरम् ॥' इति रुद्रयामळवचनानि । शिवे परमेश्वरे अर्पिताः समर्पिताः प्राणा यैस्ते तथा भूतान् । तथोक्तं शङ्करसंहितोत्तरभागे -- 'लिङ्गे प्राणं समाधाय प्राणे लिङ्गं तु शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ एतत्प्राणार्पणं प्रोक्तम्' इति । शिवेति यन्नाम तस्य कीर्तनमुच्चारणं तेन पवित्रितं पावितं मुखं स्वस्ववदनं येषां ते तथाभूतान् । तथोक्तं केदारखण्डे -- 'शिवेति द्व्यक्षरं नाम त्रायते महतो भयात् । तस्माच्छिवं चिन्तयतां स्मरतां च द्विजोत्तमाः ॥ किं पुनर्बहुनोक्तेन शिव इत्यक्षरद्वयम् । उच्चारयन्ति ये नित्यं ते रुद्रा नात्र संशयः ॥ शिवेति द्व्यक्षरं नाम यैरुदीरितमुच्चकैः । ते धन्यास्ते महात्मानः कृतकृत्यास्तथैव च ॥' इति । शिवसंहितायाम् -- 'उच्चारयन्ति ये मर्त्याः शिवनामामृतोपमम् ।
ज्ञानतोऽज्ञानतो वापि नास्ति तेषामघं ध्रुवम् ॥" इति । लिङ्गपुराणे च -- 'हत्वा भित्त्वा च भूतानि न्यायतोऽन्यायतोऽपि वा । शिवमेकं सकृत् स्मृत्वा सर्वपापैः
 
[‌‍^१] दश शैवव्रतानि जाबालश्रुतिविहितानि शिवप्रसादार्थिभिरवधेयानि ॥ "पयो ब्राह्मणस्य व्रतम्" -- इत्यत्रेव व्रतशब्दः भोजननियमपरः अत्र ॥ शिवार्चनं भोजननियमापरपर्यायव्रतं च इति द्वन्द्वात् मत्वर्थीयः इनिः इत्यप्यर्थविशेषः देयावधानः ॥