This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
शिवकथापारायणपरायणान्, शिवाहम्भावभावितान्, शिवाद्वैतवादको-
विदान्, भस्मदिग्धतनूरुहान्, भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थान-

 
[commentary]
 
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । नाहं किमपि जानामि स्वतः प्रीतो
भव प्रभो ॥ प्रायश्चित्तं वैदिकानां यागानामपि कर्मणाम् । शिवस्मरणमेवेति श्रुति-
रप्यस्ति शक्ङ्कर ।' इति । प्रकृतमनुसराम:मः । शिवार्चनस्वरूपं किञ्चिदुत्क्त्वा किञ्चि-
च्छिवव्रतस्वरूपमुच्यते । 'दश [‌‍^१]शैवत्रतान्याहु:व्रतान्याहुः जाबालश्रुतिपारगाः । प्रत्यष्टम्यां
प्रयत्नेन कर्तव्यं नक्तभोजनम् ॥ कालाष्टम्यां तु तत्त्याज्यं भोजनं यत्नपूर्वकम् ॥
अवश्यं सितभूतायां कर्तव्यं निशि भोजनम् । असितायां तु भूतायां तन्न कार्
यं द्विजातिभिः ॥ एकादश्यां सितायां तु त्याज्यं भोजनमास्तिकैः । असितायां
तु भोक्तव्यं रात्रावेव प्रयत्नतः ॥ शिवलिङ्गार्चनं कृत्वा स्वशक्त्या यत्नपूर्वकम् ।
निशि यत्लेनेन कर्तव्यं भोजनं सोमवासरे ॥ उपोषणादि नान्यस्मिन् दिवसे नियमो
ह्ययम् । पर्वण्यपि दिने त्याज्यं भोजनं सोमवासरे ॥ किमुतान्येषु दिवसे-
ष्विति जाबालवादिनः । ससोमा सितभूता या सार्द्रापातसमन्विता ॥ तस्यामु-
पोषणं कार्यं निशि जागरणं तथा । भोजनीयः प्रयत्लेनेन शैत्रोवो भक्तिपुरस्सरम् ॥"
इति रुद्रयामळवचनानि । शिवे परमेश्वरे अर्पिता:ताः समर्पिता:ताः प्राणा यैस्ते तथा
भूतान् । तथोक्तं शङ्करसंहितोत्तरभागे -- 'लिङ्गे प्राणं समाधाय प्राणे लिङ्गं तु
शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ एतत्प्राणार्पणं
प्रोक्तम्' इति । शिवेति यन्नाम तस्य कीर्तनमुच्चारणं तेन पवित्रितं पावि
तं मुखं स्वस्ववदनं येषां ते तथाभूतान् । तथोक्तं केदारखण्डे -- 'शिवेति द्व्यक्षरं नाम
त्रायते महतो भयात् । तस्माच्छिवं चिन्तयतां स्मरतां च द्विजोत्तमाः ॥ किं
पुनर्बहुनोक्तेन शिव इत्यक्षरद्वयम् । उच्चारयन्ति ये नित्यं ते रुद्रा नात्र संशयः ॥
शिवेति द्व्यक्षरं नाम यैरुदीरितमुच्चकैः । ते धन्यास्ते महात्मानः कृतकृत्यास्तथैव
च ॥' इति । शिवसंहितायाम् -- 'उच्चारयन्ति ये मर्त्याः शिवनामामृतोपमम् ।

ज्ञानतोऽज्ञानतो वापि नास्ति तेषामघं ध्रुवम् ॥" इति । लिङ्गपुराणे च -- 'हत्वा
भित्त्वा च भूतानि न्यायतोऽन्यायतोऽपि वा । शिवमेकं सकृत् स्मृत्वा सर्वपापैः
 
२०८
 
1.

 
[‌‍^१]
दश शैवव्रतानि जाबालश्रुतिविहितानि शिवप्रसादार्थिभिरवधेयानि ॥
"पयो ब्राह्मणस्य व्रतम्" -- इत्यलेत्रेव व्रतशब्द:दः भोजननियमपर:रःत्र ॥ शिवार्चनं भोजन-
नियमापरपर्यायव्रतं च इति द्वन्द्वात् मत्वर्थीग:यःनि:निः इत्यप्यर्थविशेष:षः देयावधानः ॥