2023-06-05 16:40:17 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
शिवकथापारायणपरायणान्, शिवाहम्भावभावितान्, शिवाद्वैतवादको-
विदान्, भस्मदिग्धतनूरुहान्, भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थान-
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो । नाहं किमपि जानामि स्वतः प्रीतो
भव प्रभो ॥ प्रायश्चित्तं वैदिकानां यागानामपि कर्मणाम् । शिवस्मरणमेवेति श्रुति-
रप्यस्ति शक्कर ।' इति । प्रकृतमनुसराम: । शिवार्चनस्वरूपं किञ्चिदुत्त्वा किञ्चि-
च्छिवव्रतस्वरूपमुच्यते । 'दश शैवत्रतान्याहु: जाबालश्रुतिपारगाः । प्रत्यष्टम्यां
प्रयत्नेन कर्तव्यं नक्तभोजनम् ॥ कालाष्टम्यां तु तत्त्याज्यं भोजनं यत्नपूर्वकम् ॥
अवश्यं सितभूतायां कर्तव्यं निशि भोजनम् । असितायां तु भूतायां तन्न कार्य
द्विजातिभिः ॥ एकादश्यां सितायां तु त्याज्यं भोजनमास्तिकैः । असितायां
तु भोक्तव्यं रात्रावेव प्रयत्नतः ॥ शिवलिङ्गार्चनं कृत्वा स्वशक्त्या यत्नपूर्वकम् ।
निशि यत्लेन कर्तव्यं भोजनं सोमवासरे ॥ उपोषणादि नान्यस्मिन् दिवसे नियमो
ह्ययम् । पर्वण्यपि दिने त्याज्यं भोजनं सोमवासरे ॥ किमुतान्येषु दिवसे-
ष्विति जाबालवादिनः । ससोमा सितभूता या सार्द्रापातसमन्विता ॥ तस्यामु-
पोषण कार्य निशि जागरणं तथा । भोजनीयः प्रयत्लेन शैत्रो भक्तिपुरस्सरम् ॥"
इति रुद्रयामळवचनानि । शिवे परमेश्वरे अर्पिता: समर्पिता: प्राणा यैस्ते तथा
भूतान् । तथोक्तं शङ्करसंहितोत्तरभागे – 'लिङ्गे प्राणं समाधाय प्राणे लिङ्गं तु
शाम्भवम् । स शरीरे मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ एतत्प्राणार्पणं
प्रोक्तम्' इति । शिवेति यन्नाम तस्य कीर्तनमुच्चारणं तेन पवित्रितं पावित
मुखं स्वस्ववदनं येषां ते तथाभूतान् । तथोक्तं केदारखण्डे - 'शिवेति यक्षरं नाम
त्रायते महतो भयात् । तस्माच्छिवं चिन्तयतां स्मरतां च द्विजोत्तमाः ॥ किं
पुनर्बहुनोक्तेन शिव इत्यक्षरद्वयम् । उच्चारयन्ति ये नित्यं ते रुद्रा नात्र संशयः ॥
शिवेति यक्षरं नाम यैरुदीरितमुच्चकैः । ते धन्यास्ते महात्मानः कृतकृत्यास्तथैव
च ॥' इति । शिवसंहितायाम् – 'उच्चारयन्ति ये मर्त्याः शिवनामामृतोपमम् ।
ज्ञानतोऽज्ञानतो वापि नास्ति तेषामघं ध्रुवम् ॥" इति । लिङ्गपुराणे च – 'हत्वा
भित्त्वा च भूतानि न्यायतोऽन्यायतोऽपि वा । शिवमेकं सकृत् स्मृत्वा सर्वपापैः
२०८
1. दश शैवव्रतानि जाबालश्रुतिविहितानि शिवप्रसादार्थिभिरवधेयानि ॥
"पयो ब्राह्मणस्य व्रतम्" – इत्यलेव व्रतशब्द: भोजननियमपर: अल ॥ शिवार्चनं भोजन-
नियमापरपर्यायव्रतं च इति द्वन्द्वात् मत्वर्थीग: इनि: इत्यप्यर्थविशेष: देयावधानः ॥