This page has been fully proofread twice.

भक्त्या परमया सदा ॥ अथ ध्यानं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । 'ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिणेत्रम्' ॥ ध्यात्वा प्राणप्रतिष्ठां तु पूजां कृत्वा समाहरेत् । पूर्वाद्याग्नेयपर्यन्तं वामावर्तेन बुद्धिमान् ॥ अष्टमूर्त्यन्तकैरष्टनामभिस्सायमाचरेत् । पूजामावरणाख्यां तु प्रणवाद्यैर्नमोऽन्तकैः ॥ शर्वाय
क्षितिरूपाय भवाय बलमूर्तये । रुद्राय वह्निरूपाय तथोग्राय समीरयेत् ॥ वायुरूपाय भीमाय तथाऽऽकाशस्वरूपिणे । महादेवाय सोमाय ईशानायार्कमूर्तये । यजमानस्वरूपाय पशूनां पतये नमः । मध्ये सदाशिवायाथ कथयेत् सर्वमूर्तये ॥ यद्वा प्रासादबीजेन मूलमन्त्रेण वा सुधीः । कुर्यात्तु पार्थिवीं पूजामिति कैश्चित् उदीर्यते । ततस्तु तर्पणं कार्यं नाममन्त्रैः पृथक् पृथक् । शिंव भवं तथा चोग्रं मृडं शम्भुं तथैव च । शशिशेखरसंज्ञं च शङ्करं च विरूपकम् । नवमं विश्वरूपं च दशमं च कपर्दिनम् । त्र्यम्बकं तर्पयामीति प्रणवाद्यैश्च तर्पयेत् ॥ एवं सम्पूज्य मतिमान् उपचारैः क्षमापयेत् ।" इति वचनानि शिवरहस्यस्थानि । अथ रुद्राक्षपरीक्षा -- 'निकषे हेमलेखाभा यस्य लेखा प्रदृश्यते । तदक्षमुत्तमं विद्यात्तद्धार्यं शिवपूजने ॥' अथ शिवपूजाविधिः सुतसंहितायाम् -- 'स्नात्वा शुद्धे समे देशे
गोमयेनोपलेपिते । आसीनस्सर्वदा मौनी निश्चलोदङ्मुखस्सुधीः ॥ विचित्रमासनं तत्र निधाय ब्रह्मवित्तमाः । आगस्त्येन च शास्त्रेण प्रोक्तलक्षणलक्षितम् । आदाय श्रद्धया विप्राः शिवलिङ्गं समाहिताः । तत्र चावाह्य देवेशं प्रणवेन हृदि स्थितम् ॥ अर्घ्यं दत्त्वा मुनिश्रेष्ठाः ततः पूर्वोक्तमन्त्रतः । पाद्यमाचमनं चैव दत्त्वा पूर्वोक्तमन्त्रतः ॥ स्नापयित्वा महादेवम् 'आपो हि ष्ठा’दिभिस्त्रिभिः । तथा पुरुषसूक्तेन श्रीमत्पञ्चाक्षरेण च । पुनराचमनं दत्त्वा प्रतिष्ठाप्यासने हरम् । दत्त्वा वस्त्रं मुनिश्रेष्ठ प्रणवेन समाहितः ॥ उपवीतं पुनर्दत्त्वा भूषणानि च सादरम् । गन्धं पुष्पं तथा धूपं दीपं चैवादरेण तु ॥ श्रीमत्पञ्चाक्षरेणैव प्रणवेन युतेन च । हविर्निवेद्य देवाय पानीयेन समादरात् ॥ पुनराचमनं दत्त्वा ताम्बूलं चोपदंशकम् । माल्यं दत्त्वाऽनुलेपं च प्रणम्य भुवि दण्डवत् ॥' इति । अथ क्षमापणप्रकारः -- 'अपराधान्क्षमस्वेश मम शङ्कर सर्वग । स्वरूपं तव विज्ञातुं शक्यमेव न सर्वदा ॥ क्षन्तव्यं महता सर्वं विषवद्भवता खल्लु । क्षमाविषयभूतोऽस्मि नातः परनिवेदनम् ॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च । यत् न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥