This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
२०७
 
भक्त्या परमया सदा ॥ अथ ध्यानं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । 'ध्याये-
न्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभी-
तिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं
विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिणेत्रम्' ॥ ध्यात्वा प्राणप्रतिष्ठां तु पूजां
कृत्वा समाहरेत् । पूर्वाद्याग्मेनेयपर्यन्तं वामावर्तेन बुद्धिमान् ॥ अष्टमूर्त्यन्तकैर-
ष्टनामभिस्सायमाचरेत् । पूजामावरणाख्यां तु प्रणवाद्यैर्नमोऽन्तकैः ॥ शर्वाय

क्षितिरूपाय भवाय बलमूर्तये । रुद्राय वहिह्निरूपाय तथोग्राय समीरयेत् ॥
वायुरूपाय भीमाय तथाऽऽकाशस्वरूपिणे । महादेवाय सोमाय ईशानायार्कमूर्तये ।
यजमानस्वरूपाय पशूनां पतये नमः । मध्ये सदाशिवायाथ कथयेत् सर्वमूर्तये ॥
यद्वा प्रासादबीजेन मूलमन्त्रेण वा सुधीः । कुर्यात्तु पार्थिवीं पूजामिति कैश्चित्
उदीर्यते । ततस्तु तर्पणं कार्यं नाममन्त्रैः पृथक् पृथक् । शिंव भवं तथा चोग्रं
मृडं शम्भुं तथैव च । शशिशेखरसंज्ञं च शङ्करं च विरूपकम् । नवमं विश्वरूपं च
दशमं च कपर्दिनम्। त्र्यम्बकं तर्पयामीति प्रणवाद्यैश्च तर्पयेत् ॥ एवं सम्पूज्य
मतिमान् उपचारैः क्षमापयेत् ।" इति वचनानि शिवरहस्यस्थानि । अथ रुद्राक्षपरीक्षा -
परीक्षा –
- 'निकषे हेमलेखाभा यस्य लेखा प्रदृश्यते । तदक्षमुत्तमं विद्यात्तद्धार्
यं शिवपूजने ॥' अथ शिवपूजाविधिः सुतसंहितायाम् -- 'स्नात्वा शुद्धे समे देशे

गोमयेनोपलेपिते । आसीनस्सर्वदा मौनी निश्चलोदङ्मुख स्सुधीः ॥ विचित्रमासनं
तत्र निघाधाय ब्रह्मवित्तमाः । आगस्त्येन च शास्त्रेण प्रोक्तलक्षणलक्षितम् । आदाय
श्रद्धया विप्राः शिवलिंलिङ्गं समाहिताः । तत्र चावाह्य देवेशं प्रणवेन हृदि स्थितम् ॥
अर्घ्यं दत्त्वा मुनिश्रेष्ठाः ततः पूर्वोक्तमन्त्रतः । पाद्यमाचमनं चैव दत्त्वा पूर्वोक्तमन्त्रतः ॥
स्नापयित्वा महादेवम् 'आपो हि ष्ठा दिभिस्त्रिभिः । तथा पुरुषसूक्तेन श्रीमत्पञ्चाक्ष-
रेण च । पुनराचमनं दत्त्वा प्रतिष्ठाप्यासने हरम् । दत्त्वा वस्त्रं मुनिश्रेष्ठ प्रणवेन
समाहितः ॥ उपवीतं पुनर्दत्त्वा भूषणानि च सादरम् । गन्धं पुष्पं तथा धूपं
दीपं चैवादरेण तु ॥ श्रीमत्पञ्चाक्षरेणैव प्रणवेन युतेन च । हविर्निवेद्य देवाय
पानीयेन समादरात् ॥ पुनराचमनं दत्त्वा ताम्बूलं चोपदंशकम् । माल्यं दत्त्वा
ऽनुलेपं च प्रणम्य भुवि दण्डवत् ॥' इति । अथ क्षमापणप्रकार: –रः -- 'अपराधान्
क्षमस्वेश मम शङ्कर सर्वग । स्वरूपं तव विज्ञातुं शक्यमेव न सर्वदा ॥ क्षन्तव्यं
महता सर्वं विषवद्भवता खल्लु । क्षमाविषयभूतोऽस्मि नातः पर निवेदनम् ॥ अज्ञानाद्वा
प्रमादाद्वा वैकल्यात् साधनस्य च यत् न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥
 
-
 
-