2023-09-14 09:21:03 by Bharadwajraki
This page has been fully proofread twice.
'सन्धास्यामः शमधनगिरा निर्व्यळीकं सुरैः प्राक्
क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च ।
पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्युः
नैवं चेत् किं विहतमियता [^१]बाहवः क्वागमन्नः ॥ २६ ॥'
इति । ततस्साधु साध्वित्यनुमोद्यमानास्सचिवेन, प्रस्थाप्य वाचस्पतिम्, प्रथमतस्सन्धास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम् । पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः सन्ददर्श मन्दरमेत्य सन्ततशिवध्याननिर्धूतकल्मषान्, शिवार्चनव्रतिनः, शिवार्पितप्राणान्, शिवनामकीर्तनपवित्रितमुखान्,
[commentary]
भूतं यथा तथा । 'अळीकं त्वप्रियेऽनृते' इत्यमरः । सुरैः देवैः प्राक् पूर्वं सन्धास्यामः सन्धिं करिष्यामः । जलधिं समुद्रं क्षोभिष्यामः मथिष्यामः । तत्र जलधौ अमृतं सुधां लप्स्यामहे प्राप्स्यामहे च । अथ अमृतलाभानन्तरं अमी देवाः साधवः सज्जनाः स्युर्यदि भवेयुर्यदीत्यर्थः । उभये ते वयं चेत्युभये पास्यामः पानं करिष्यामः । एवं साधवः न चेत् न भवेयुर्यदीत्यर्थः । इयता एतावता किं विहतं किं विगतं, न किमपीत्यर्थः। 'हन हिंसागत्योः' 'नपुंसके भावे क्तः' (३.३.११४) । नः अस्माकं बाहवः भुजाः क्व कुत्रागमन् गताः । तदानीं ते सहृदया न भवेयुः यदि अस्मद्भुजबलतिरस्कृतास्सन्तः इदानीमिवाश्रुतनामानो भविष्यन्तीति भावः ॥ तत इति ॥ ततोऽनन्तरं सचिवेन अमात्येन गुरुणा सह साधु साधु शोभनं शोभनम् । आदरात् द्विरुक्ति:तिः । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः । इतीत्थमनुमोद्यमानास्संमान्यमानास्सन्तः प्रथमतः पूर्वं वाचस्पतिं सुरगुरुं प्रस्थाप्य प्रयाणं कारयित्वेति यावत् । दानवास्सन्धास्यन्तस्सन्धिं करिष्यन्तस्सन्तः । सद्यः तत्क्षणादेव मन्दरमद्रिं प्रति प्रतस्थिरे प्रययुरित्यर्थः ॥ पूर्णेति ॥ पूर्णाः सफलाः मनोरथाः कामा यस्य स तथाभूतः गुरुश्च उपावर्तमानः पुनः प्रतिनिवृत्तस्सन्नित्यर्थः । मन्दरम् अद्रिम् एत्य प्राप्य, शिवः परमेश्वरः तस्य ध्यानं चिन्तनं तेन निर्धूतानि विनाशितानि कल्मषाणि पापानि येषां ते तथाभूतान् । ध्यानप्रकारः कैवल्योपनिषदि -- 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥' इत्यादिना श्रूयते ।
[^१] 'बाहवः क्वागमन्नः' -- इत्यनेन सर्वथा शुभे यतितव्यम्, अशुभं चेदायाति दैवात्, तत् परिहारेऽपि यतितव्यम्, इति मानवानां पौरुषमतीवावश्यकमिति द्योतयति ॥
क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च ।
पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्युः
नैवं चेत् किं विहतमियता [^१]बाहवः क्वागमन्नः ॥ २६ ॥'
इति । ततस्साधु साध्वित्यनुमोद्यमानास्सचिवेन, प्रस्थाप्य वाचस्पतिम्, प्रथमतस्सन्धास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम् । पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः सन्ददर्श मन्दरमेत्य सन्ततशिवध्याननिर्धूतकल्मषान्, शिवार्चनव्रतिनः, शिवार्पितप्राणान्, शिवनामकीर्तनपवित्रितमुखान्,
[commentary]
भूतं यथा तथा । 'अळीकं त्वप्रियेऽनृते' इत्यमरः । सुरैः देवैः प्राक् पूर्वं सन्धास्यामः सन्धिं करिष्यामः । जलधिं समुद्रं क्षोभिष्यामः मथिष्यामः । तत्र जलधौ अमृतं सुधां लप्स्यामहे प्राप्स्यामहे च । अथ अमृतलाभानन्तरं अमी देवाः साधवः सज्जनाः स्युर्यदि भवेयुर्यदीत्यर्थः । उभये ते वयं चेत्युभये पास्यामः पानं करिष्यामः । एवं साधवः न चेत् न भवेयुर्यदीत्यर्थः । इयता एतावता किं विहतं किं विगतं, न किमपीत्यर्थः। 'हन हिंसागत्योः' 'नपुंसके भावे क्तः' (३.३.११४) । नः अस्माकं बाहवः भुजाः क्व कुत्रागमन् गताः । तदानीं ते सहृदया न भवेयुः यदि अस्मद्भुजबलतिरस्कृतास्सन्तः इदानीमिवाश्रुतनामानो भविष्यन्तीति भावः ॥ तत इति ॥ ततोऽनन्तरं सचिवेन अमात्येन गुरुणा सह साधु साधु शोभनं शोभनम् । आदरात् द्विरुक्
[^१] 'बाहवः क्वागमन्नः' -- इत्यनेन सर्वथा शुभे यतितव्यम्, अशुभं चेदायाति दैवात्, तत् परिहारेऽपि यतितव्यम्, इति मानवानां पौरुषमतीवावश्यकमिति द्योतयति ॥