This page has not been fully proofread.

तृतीया श्वासः
'सन्धास्यामः शमधनगिरा निर्व्यळीकं सुरैः प्राक्
क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च ।
पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्युः
 
नैवं चेत् किं विहतमियता 'बाहवः कागमन्नः ॥ २६ ॥'
इति । ततस्साधु साध्वित्यनुमोद्यमानास्सचिवेन, प्रस्थाप्य वाचस्पतिम्,
प्रथमतस्सन्धास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम् । पूर्णमनोरथश्च
गुरुः पुनरुपावर्तमानः सन्ददर्श मन्दरमेत्य सन्ततशिवध्याननिर्धूतकल्म-
षान्, शिवार्चनवतिनः, शिवार्पितप्राणान्, शिवनामकीर्तनपवित्रितमुखान्,
भूतं यथा तथा । 'अळीकं त्वप्रियेऽनृते' इत्यमरः । सुरैः देवैः प्राक् पूर्व
सन्धास्यामः सन्धि करिष्यामः । जलधिं समुद्रं क्षोभिष्यामः मथिष्यामः । तत्र
जलधौ अमृतं सुधां लप्स्यामहे प्राप्स्यामहे च । अथ अमृतलाभानन्तरं अमी देवाः
साधवः सज्जनाः स्युर्यदि भवेयुर्यदीत्यर्थः । उभये ते वयं चेत्युभये पास्यामः पानं
करिष्यामः । एवं साधवः न चेत् न भवेयुर्यदीत्यर्थः । इयता एतावता किं विहतं
किं विगतं, न किमपीत्यर्थः। 'हन हिंसागत्यो : ' 'नपुंसके भावे क्त:' (3-3-114)।
नः अस्माकं बाहव: भुजाः क्व कुत्रागमन् गताः । तदानीं ते सहृदया न भवेयुः यदि
अस्मद्भुजबलतिरस्कृतास्सन्तः इदानी मिवाश्रुतनामानो भविष्यन्तीति भावः ॥ तत
इति ॥ ततोऽनन्तरं सचिवेन अमात्येन गुरुणा सह साधु साधु शोभन शोभनम् ।
आदरात् द्विरुक्ति: । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः ।
इतीत्थमनुमोद्यमानास्संमान्यमानास्सन्तः प्रथमतः पूर्वं वाचस्पति सुरगुरुं प्रस्थाप्य
प्रयाणं कारयित्वेति यावत् । दानवास्सन्धास्यन्तस्सन्धि करिष्यन्तस्सन्तः । सद्य:
तत्क्षणादेव मन्दरम
िप्रति प्रतस्थिरे प्रययुरित्यर्थः ॥ पूर्णेति ॥ पूर्णाः
सफला: मनोरथाः कामा यस्य स तथाभूतः गुरुध उपावर्तमानः पुनः प्रति-
निवृत्तस्सन्नित्यर्थ: । मन्दरम् अद्रिम् एत्य प्राप्य, शिवः परमेश्वरः तस्य ध्यानं चिन्तनं
तेन निर्धूतानि विनाशितानि कल्मषाणि पापानि येषां ते तथाभूतान् । ध्यानप्रकार:
कैवल्योपनिषदि – 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षि तमसः परस्तात् ॥' इत्यादिना श्रयते ।
 
२०५
 
1. 'बाहव: कागमन्नः' - इत्यनेन सर्वथा शुमे यतितव्यम् अशुभं चेदायाति
दैवात्, तत् परिहारेऽपि यतितव्यम्, इति मानवानां पौरुषमतीवावश्यक मिति योतयति ॥
 
"