2023-06-05 16:40:17 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
२०४
भवन्त एव प्रमाणमर्थेषु ।
यद्यप्यद्य गतश्रियस्सुमनसो यद्यप्यसौ तद्गुरुः
यद्यप्यस्ति फलं न किञ्चिदपि नस्सन्धाय साध्यं सुरैः ।
पर्यालोच्यमथापि किञ्चिदुधिं निर्मथ्य लब्ध्वा सुधां
पास्यामो वयमित्यसौ रहसि मां यत्प्राह दिव्यो मुनिः ॥ २५॥
इति । तच्छृण्वन्त एव दानवाः संमोहिता मायया वैष्णव्या, सद्य एव
संमेनिरे । आहुश्च
आदराद्विरुक्ति: । 'अथ सम्बोषनार्थकः । स्युः प्याटू पाडङ्ग हे है भो' इत्यमरः ।
सकला: समस्ताः याः कलाः विद्याः तासां ये आशयाः अभिप्रायाः यानि
मर्माणि गोप्यार्थाः तानि जानन्तीति तज्ज्ञाः सन्धि: मैञ्या उभयोर्मेळनं विग्रहः
द्वेषेण उभयोः कलह तावेव योगौ जयसाधनोपायौ । 'योगस्सन्नहनोपाय-
ध्यानसङ्गतियुक्तिषु' इत्यमरः । तयोः पारङ्गामिनः पारहश्वन इति यावत् ।
तथाविधा भवन्त एव नीतिपथे नीतिमार्गे, स्थितानामित्यस्य गम्यमानत्वादप्रयोगः ।
अर्थेषु प्रयोजनविषये प्रमाणं प्रमातारः । ज्ञातार इति यावत् । 'प्रमाणं हेतुमर्यादा-
शास्त्रेयत्ताप्रमातृषु' इत्यमरः । सन्धिविग्रहादिस्वरूपविदां भवतां नीतिमार्गस्स-
मीचीन इत्यनुभवगोचर एवेति भावः ॥ यद्यपीति ॥ अद्य इदानीं सुमनसो
देवाः गताः श्रियः सम्पदो येषां ते तथाभूताः, दरिद्रा इति यावत् ।
यद्यपि असौ तेषां दरिद्रसुमनसां गुरुरुपदेष्टा मन्त्री, यद्यपि नः अस्माकं
सुरैर्देवैः सन्धाय सन्धि कृत्वा साध्यं सम्पादनीयं न किञ्चित् किञ्चिदपि
नास्तीत्यर्थः । अथापि दिव्यः स्वर्गवासी मुनिः मननशील: गुरु: उदधिं
समुद्रं निर्मथ्य, सुधाम् अमृतं लब्ध्वा प्राप्य वयं मिळित्वा पास्यामः पानं करिष्यामः
इति रहसि एकान्ते यदाह यद्वचनमुवाच तद्वचनं किञ्चित्पर्यालोच्य परि-
भावनीयं बहुषूक्तेष्विदमेकं मम सारवद्भातीति भावः ॥ इतीति ॥ इति इत्थंप्रकारं
तद्वचनं शृण्वन्त एव श्रोतार एव वैष्णव्या मायया । मायाया विष्णुसम्बन्धित्वे,
'दैवी होषा गुणमयी मम माया दुरत्यया' इति गीता ( 7-14) वचनं
मानम् । मोहिता: वञ्चितास्सन्तः मुग्धाः कृतास्सन्त इत्यर्थः । सद्यः तत्क्षणादेव
संमेनिरे सम्मतिं चक्रुः ॥ आहुश्चेति ॥ शमः अन्तरिन्द्रियनिग्रहः धनं स्म
स तथाभूतः गुरुः तस्य गीर्वाक् तया निष्क्रान्तमळीकमप्रियमनृतं वा यस्मात्तथा-