This page has not been fully proofread.

'गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेलाविवेश्वरः ।
शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥'
इति पूर्वैरुक्तं भावं सचमत्कारमर्थान्तरन्यसनेन प्रतिपादयन्
 
" अन्तर्निगीर्णमपि तेन तदा विरासीत्
 
कालोन्मिषत्कुवलयच्छवि कण्ठमूले ।
आयस्य गुप्तमपि खल्वनृतं कदापि
 
सद्यः स्फुटीभवति साधुषु निर्मलेषु ॥ "
 
इति श्लोक एकोऽलं कवेरस्य सत्कवित्वप्रतिष्ठापनाय ।
 
क्षीरोद वर्णने मूलकारैर्वैष्णवागमपरिशीलनशालिभि: सुबहु वैष्णवैकगम्यं
प्रपञ्चितम् । यथा – " पश्य ज्ञानकियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या - "
इति श्लोके प्रणवाकारविमानस्य प्रशंसा, "आत्मार्पणतत्त्ववेदिभिः " ( पु. 168)
इत्यनेन " हविगृहीत्वाऽऽत्मरूपं वसुरण्येति मन्त्रतः
जुहुयात् प्रणवेनामौ
अच्युताख्ये सनातने " इति वचनानुसारेण प्रपत्तिस्वरूपम्, 'अनुत्तरपरा-
हन्ताक्कितोर: स्थलम्' (पु. 169) इत्यत्र, 'सर्वभावात्मिका लक्ष्मीरहन्ता
परमात्मिका । ' (अहिर्बुध्न्यसंहिता 3-42) 'अहं नारायणी नाम साऽहन्ता
वैष्णवी परा' (लक्ष्मीतन्त्रम् 3-1 ) इत्यादिवचनानि विवक्षितानीति ज्ञायते ।
एवं ' एकं तद् द्विविभूति – ' इति श्लोके लीलाविभूतिरूपत्रह्माण्डानि, नित्या
श्रीवैकुण्ठादि विभूतिरिति च विभूतिद्वयमेव विवक्षितम् । एवं ' त्रिधामनिहितम् '
इत्यस्य बर्थसम्भवेऽपि 'क्षीराब्धिर्मण्डलं भानोर्योगिनां हृदयानि च । त्रीणि
धामानि मे सन्ति त्रिधामाऽहमतः स्मृतः ॥ इति वाराह भगवद्वचनानुसार्येवार्थो
वैष्णवसम्मतः । स्पष्टमिदं यादवाभ्युदयव्याख्याने (1-43) 'दुग्धाम्बुधिरवि-
मण्डलपरमपदरूपाणि स्थानानि – इत्यादिश्रीदीक्षितवचनेनापि ।
'
 
( पु. 213 ) 'त्वमसि शतक्रतुः' इति श्लोके चरमचरणे 'निखिलमनाकुलं
कुलमिंद प्रतितिष्ठते' इत्येव वृत्तानुगुणः पाठः । 'नः' इत्येकाक्षरयोजनायां
वृत्तेऽक्षराधिक्यं भवति । परं तु पूर्वमुद्रणेषु यथा दृष्टं तथैव व्याख्यानुगुणं स्थापित-
मस्माभिः । व्याख्या चात्र '.... नोऽस्माकम्' (पु. 214) इत्यास्ते ।