This page has been fully proofread twice.

स्थीयतामग्रजैः स्वर्गे जीयतामनुजेन वा
सर्वथा भ्रातृभाग्येन संवृत्तं नः प्रयोजनम् ॥ २४ ॥ इति ।
 
अहं तु भवतः सार्वज्ञ्यात् अविशङ्कम् अवादिषम् । न खल्वात्मनस्सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिहरणीयं धीमतां धीरेव सचिवश्शासिता' इत्यभिधाय विरमति देवगुरौ,
अवलोकितो बलिना, भार्गवस्सामाजिकाननुमोदयन्निदमाचचक्षे । 'भो भो सकलाशयमर्मज्ञाः, समयज्ञाः सन्धिविग्रहयोः, [^१]पारीणा नीतिपथे,
 
[commentary]
 
बुद्धिरन्यादृ्शी प्रकारान्तरवतीत्यर्थः ॥ स्थीयतामिति ॥ अग्रजैः ज्येष्ठभ्रातृभिः असुरैः स्थीयतां । भावे लोट् । उषितं स्यादित्यर्थः । सर्वथा सर्वप्रकारैरित्यर्थः । भ्रातुः ज्येष्ठस्य कनिष्ठस्य वा भाग्यं शुभकर्म । 'भाग्यं कर्म शुभाशुभम्' इत्यमरः । तेन नः अस्माकं प्रयोजनं संवृत्तं संप्राप्तं इत्याखण्डलस्येत्यन्वयः । असुराणां स्वर्गाधिपत्ये इन्द्राग्रज: स्वर्गमधितिष्ठतीति प्रवादः स्यात्, उपेन्द्रस्याधिपत्ये इन्द्रानुजः
स्वर्गमधितिष्ठतीति प्रसिद्धिः स्यात्, उभयथापि मम कीर्तिरस्त्येवेति भावः । संप्रति सामाजिकान् प्रत्याह । नेति ॥ आत्मनस्स्वस्य सचिवः तेन उक्तं कथितं इत्येवं एतावता हेतुनैव नादरणीयं नादर्तव्यं खलु । तदुक्तमप्ययुक्तं चेद्धेयमेव भवतीति भावः । परः शत्रुः । 'परोऽरिपरमात्मनोः' इति विश्वः । तस्य सचिवः मन्त्री तेनोक्तं गदितमिति वा । एतेनैव हेतुनेत्यर्थः । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । परिहरणीयं परित्यक्तव्यं न भवति । तदुक्तमपि युक्तं चेद्ग्राह्यमेव भवति । 'युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि' इति न्यायादिति भावः । धीमतां बुद्धिशालिनां धीरेव सचिवः शासिता शिक्षकः । 'मन्त्री धीसचिवोऽमात्यः' इत्यमरः । विवेकिनं धीरेव अमार्गान्निवर्तयति सन्मार्गे प्रवर्तयति । ततः बुद्धिशालिनः मन्त्र्यन्तरापेक्षा नास्तीति भावः । इतीत्थं अभिधाय देवगुरौ सुराचार्ये विरमति तूष्णीम्भूते सति ॥ अवलोकित इति ॥ बलिना दानवेन्द्रेणालोकितः साभिप्रायं दृष्टः । भार्गवः असुरगुरुः इदं स्वबुद्धिस्थं सामाजिकान् सभासदः । 'सभासदस्सभास्तारास्सभ्यास्सामाजिकाश्च ते’ इत्यमरः । अनुमोदयन् अनुमानयन् सन्, इदं स्वबुद्धिस्थं आचचक्षे जगाद ॥ भो भो इति ॥ भो भो इति निपातः सम्बोधनार्थकः ।
 
[^१] पारङ्गामिन इति व्याख्यापाठः ।