2023-06-05 16:40:16 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
स्थीयतामग्रजैः स्वर्गे जीयतामनुजेन वा ।
सर्वथा भ्रातृभाग्येन संवृत्तं नः प्रयोजनम् ॥ २४ ॥ इति ।
अहं तु भवतः सार्वज्ञयात् अविशङ्कम् अवादिषम् । न खल्वा-
त्मनस्सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिहरणीयं
धीमतां धीरेव सचिवश्शासिता' इत्यभिधाय विरमति देवगुरौ,
अवलोकितो बलिना, भार्गवस्सामाजिकाननुमोदयन्निदमाचचक्षे । 'भो
भो सकलाशयमर्मज्ञाः, समयज्ञाः सन्धिविग्रहयोः, 'पारीणा नीतिपथे,
बुद्धिरन्याशी प्रकारान्तरवतीत्यर्थः ॥ स्थीयतामिति ॥ अग्रजै: ज्येष्ठम्रातृभिः
असुरैः स्थीयतां । भावे लोट् । उषितं स्यादित्यर्थः । सर्वथा सर्वप्रकारैरित्यर्थः ।
भ्रातुः ज्येष्ठस्य कनिष्ठस्य वा भाग्यं शुभकर्म । 'भाग्यं कर्म शुभाशुभम्' इत्यमरः ।
तेन नः अस्माकं प्रयोजनं संवृत्तं संप्राप्तं इत्याखण्डलस्येत्यन्वयः । असुराणां
स्वर्गाधिपत्ये इन्द्राग्रज: स्वर्गम धितिष्ठतीति प्रवादः स्यात्, उपेन्द्रस्याधिपत्ये इन्द्रानुजः
स्वर्गमधितिष्ठतीति प्रसिद्धि: स्यात्, उभयथापि मम कीर्तिरस्त्येवेति भावः । संप्रति
सामाजिकान् प्रत्याह । नेति ॥ आत्मनस्स्वस्य सचिवः तेन उक्तं कथितं
इत्येवं एतावता हेतुनैव नादरणीयं नादर्तव्यं खलु । तदुक्तमप्ययुक्तं चेद्धेयमेव
भवतीति भावः । परः शत्रुः । 'परोऽरिपरमात्मनोः' इति विश्वः । तस्य
सचिवः मन्त्री तेनोक्तं गदितमिति वा । एतेनैव हेतुनेत्यर्थ: । 'इति हेतुप्रकरण -
प्रकारादिसमाप्तिषु' इत्यमरः । परिहरणीयं परित्यक्तव्यं न भवति । तदुक्तमपि
युक्तं चेद्राह्यमेव भवति । 'युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि' इति
न्यायादिति भावः । धीमतां बुद्धिशालिनां धीरेव सचिव : शासिता शिक्षकः ।
'मन्त्री धीसचिवोऽमात्यः' इत्यमरः । विवेकिनं धीरेव अमार्गान्निवर्तयति सन्मार्गे
प्रवर्तयति । ततः बुद्धिशालिन: मन्त्र्यन्तरापेक्षा नास्तीति भावः । इतीत्थं
अभिघाय देवगुरौ सुराचार्ये विरमति तूष्णीम्भूते सति ॥ अवलोकित इति ॥
बलिना दानवेन्द्रेणालोकित: साभिप्राय दृष्ट: । भार्गव: असुरगुरुः इदं
स्वबुद्धिस्थ सामाजिकान् सभासदः । 'सभासदस्सभास्तारास्सभ्यास्सामाजि-
काश्च ते इत्यमरः । अनुमोदयन् अनुमानयन् सन् इदं स्वबुद्धिस्थं आच-
चक्षे जगाद ॥ भो भो इति ॥ भो भो इति निपातः सम्बोधनार्थकः ।
:
."
1. पारजामिन इति व्याख्यापाठः ।
२०३