This page has been fully proofread twice.

यन्नैश्चिन्त्यं यदौर्जित्यं यद्बलं या सुखासिका ।
यद्यशो यः प्रतापश्च सर्वं तदनुचिन्त्यताम् ॥ २२ ॥
 
आस्तामिदम् । अवश्यं हि विग्रहवत्सु युष्मासु भवितव्यम् । अप्रकाशेन मया भार्गवेण वा । तथा च ।
 
निर्वर्त्यमाना यत्नेन निर्जरैरसुरैश्च वा ।
काः क्रियाः फलवत्यः स्युरावयोरप्रकाशयोः ॥ २३ ॥
 
आखण्डलस्य तु मतिरन्यादृशी ।
 
[commentary]
 
अवकाशं छिद्रमप्रदायादत्त्वा युष्मासु तेषु भवत्सु चेत्यर्थः । अन्योन्यं परस्परं समवेतेषु मैत्र्या मिळितेषु सत्सु ॥ यदिति ॥ यन्निष्क्रान्ता चिन्ता येभ्यस्ते निश्चिन्ताः तेषां भावः नैश्चिन्त्यम्, चिन्ताराहित्यमिति यावत् । 'स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे' इत्यमरः । यदौद्धत्यं य उत्साहः यद्बलं यत्परनिग्रहसामर्थ्यं वर्तते या सुखासिका या वा सुखस्थितिर्वर्तेत यद्यशः कीर्तिः भवेत् यः प्रतापः कोशदण्डजं तेजः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । तत्सर्वमनुचिन्त्यताम् अनुसन्धीयतामित्यर्थः । मिळितानां भवतामसाध्याभावादवश्यं मेळनं भवितव्यमिति भावः । आस्तामिदं एतत्तिष्ठतु । सन्धौ साधकमुक्त्वा विग्रहे बाधकमाह ॥ अवश्यमिति ॥ युष्मासु तेषु भवत्सु चेत्यर्थः । विगृह्णत्सु युद्धं कुर्वत्सु सत्सु गुरुणा मया भार्गवेण वा अप्रकाशेन प्रकाशरहितेन भवितव्यं स्थातव्यं गुरुशुक्रयोरावयोः केवलसमीपवृत्तित्वे युद्धप्रतिबन्धकमहावृष्टिसम्भवादिति भावः । तथा चोक्तम् -- 'गुरुशुक्रौ समीपस्थौ कुर्यादेकार्णवं जगत्' इति । 'दृश्यौ यदाऽहनि जनैर्व्रजतो यदाऽस्तमन्योन्यतस्सुरगुरौ यदि वार्यशुक्रौ । कर्माणि तत्र समये न शुभानि कुर्यान्नैवारभेत शशिजेऽस्तगते च विद्याम्' ॥ तथा चेति ॥ तथा च एवं चेत्यर्थः । आवयोः गुरुशुक्रयोरप्रकाशयोः मूढयोस्सतोरिति यावत् । सुरैः देवैः, असुरैः दानवैश्च वा यत्नेन महाप्रयत्नेन निर्वर्त्यमानाः क्रियमाणा अपि काः क्रिया के वा व्यापाराः फलवत्यः सफलास्स्युः भवेयुः । का अपि क्रिया न फलन्तीत्यर्थः । तथा चोक्तम् -- 'गुरुभार्गवयोर्मौढ्ये[^१] शुभं
किंचिन्न सिध्यति' इति ॥ आखण्डलस्येति । आखण्डलस्य इन्द्रस्य मतिः
 
[^१] गुरुमौढ्ये ऋगुपाकर्म, शुक्रमौढ्ये यजुरुपाकर्म न क्रियते इति च प्रसिद्धम् ॥