2023-06-05 16:40:17 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सव्याख्याने
यन्नैश्चिन्त्यं यदौजित्यं यद्वलं या सुखासिका ।
यद्यशो यः प्रतापश्च सर्वं तदनुचिन्त्यताम् ॥ २२ ॥
आस्तामिदम् । अवश्यं हि विग्रहवत्सु युष्मासु भवितव्यम् ।
अप्रकाशेन मया भार्गवेण वा । तथा च ।
निर्वर्त्यमाना यत्नेन निर्जरैरसुरैश्च वा ।
काः क्रियाः फलवत्यः स्युरावयोरप्रकाशयोः ॥ २३ ॥
आखण्डलस्य तु मतिरन्याशी ।
२०२
अवकाशं छिद्रमप्रदायादत्त्वा युष्मासु तेषु भवत्सु चेत्यर्थः । अन्योन्यं परस्परं
समवेतेषु मैत्र्या मिळितेषु सत्सु ॥ यदिति ॥ यन्निष्कान्ता चिन्ता येभ्यस्ते
निश्चिन्ताः तेषां भावः नैश्चिन्त्यम् चिन्ताराहित्यमिति यावत् । 'स्याच्चिन्ता
स्मृतिराध्यानमुत्कण्ठोत्कलिके समे' इत्यमरः । यदौद्धत्यं य उत्साहः यद्वलं
यत्परनिग्रहसामर्थ्य वर्तते या सुखासिका या वा सुखस्थितिवर्तेत यद्यशः कीर्तिः
भवेत् यः प्रतापः कोशदण्डजं तेज: । 'स प्रतापः प्रभावश्च यत्तेज: कोशदण्डजम्
इत्यमरः । तत्सर्वमनुचिन्त्यताम् अनुसन्घीयता मित्यर्थः । मिळितानां भवतामसाध्या-
भावाद वश्यं मेळनं भवितव्यमिति भावः । आस्तामिदं एतत्तिष्ठतु । सन्धौ
साधकमुक्त्वा विग्रहे बाधकमाह ॥ अवश्य मिति ॥ युष्मासु तेषु भवत्सु चेत्यर्थः ।
विगृहत्सु युद्धं कुर्वत्सु सत्सु गुरुणा मया भार्गवेण वा अप्रकाशन प्रकाशरहितेन
भवितव्यं स्थातव्यं गुरुशुकयोरावयोः केवलसमीपवृत्तित्वे युद्धप्रतिबन्धकमहावृष्टि
सम्भवादिति भावः । तथा चोक्तम् – 'गुरुशुक्रौ समीपस्थौ कुर्यादेकार्णवं जगत् '
इति । 'दृश्यौ यदाऽहनि जनैर्वजतो यदाऽस्तमन्योन्यतस्सुरगुरौ यदि वार्यशुकौ ।
कर्माणि तत्र समये न शुभानि कुर्यान्नैवारभेत शशिजेऽस्तगते च विद्याम्' ॥
तथा चेति ॥ तथा च एवं चेत्यर्थः । आवयोः गुरुशुक्रयोरप्रकाशयोः मूढयो-
स्सतोरिति यावत् । सुरैः देवैः, असुरैः दानवैश्च वा यत्नेन महाप्रयत्नेन निर्वर्त्यमानाः
क्रियमाणा अपि काः क्रिया के वा व्यापाराः फलवत्यः सफलास्स्युः भवेयुः ।
का अपि क्रिया न फलन्तीत्यर्थः । तथा चोक्तम् – 'गुरुभार्गवयोर्मोढचे' शुभं
किंचिन्न सिध्यति' इति ॥ आखण्डलस्येति । आखण्डलस्य इन्द्रस्य मतिः
—
1. गुरुमौढपे ऋगुपाकर्म, शुक्रमौढथे यजुरुपाकर्म न क्रियते इति च प्रसिद्धम् ॥