This page has been fully proofread once and needs a second look.

तृतीयाभ्यास:
 
न च नियमतो देवानेवानुकम्पितुमीशते
 

यदसुरवरान् मध्ये मध्ये समुद्गमयन्ति च ॥ २० ॥

अतो ब्रह्मेशविष्णूनामपि शुद्धचिदात्मनाम् ।

आचूडादानखाग्रेभ्यो मन्ये मायामयं वपुः ॥ २१ ॥

 
तदप्रदाय परेभ्योऽवकाश मन्योन्यसमवेतेषु युष्मासु,
 

 
[commentary]
 
भवान् स्वयमेव कार्यस्य प्रकृतेः कर्तुं योग्यस्य स्वरूपं पर्यालोचयतु परिभावनं
कुर्वित्यर्थः ॥ ददतीति ॥ द्रुहिण :णः ब्रह्मा स च हरः शिवः स च गोविन्दो
विष्णुः स च ते एतदाद्याः एतत्प्रभृतयः दैत्येषु दितिपुत्रविषयेषु वरं प्रार्थितार्थम् ।
'दैवाद्वृते वरश्श्रेष्ठे त्रिषु क्लीबे मना क्प्रिये' इत्यमरः । ददति वितरन्तीत्यर्थः ।
दत्त्वा दानं कृत्वा च तं वरं सद्यस्तरक्षण एव अन्यथयन्ति अन्यथा कुर्वन्तीत्यर्थः ।
इति व
इति वः युष्माकं स्फुटं प्रत्र्व्यक्तमेव । 'स्फुटं प्रव्यक्तमुल्त्रणम्' इत्यमरः । कुम्भकर्ण-
भस्मासुरादिषु तथा प्रसिद्धत्वादिति भावः । नियमतः नियमेन । सार्वविभक्ति-
कस्स्तसिः । आवश्यकतयेति तात्पर्यार्थः । देवान् इन्द्रादीनेव अनुकम्पितुम् अनुग्रहीतुं
न चेशते समर्था न भवन्तीत्यर्थः । यद् यस्मात्कारणात् मध्ये मध्ये क्वचित्
क्वचित्समय इत्यर्थः । असुरवरान् दानवश्रेष्ठान् समुद्गमयन्ति समुन्नतान् कुर्वन्ती-
त्यर्थः । कदाचित्तेषाम् उपचयः भवतामपचयः कदाचिद्भवतामुपचयस्तेषामपचय

इति सर्वैर्विदितमेवेति भावः ॥ अत इति ॥ अतः कालभेदेन उभयत्र पक्षपाता-
पक्षपातप्रदर्शनादित्यर्थः । शुद्धा निर्मला चित् बुद्धिः येषां ते शुद्धचितः एवंभूताः
आत्मानः स्वभावाः येषां ते । निर्मलबुद्धिस्वभावा इति यावत् । एवंभूतानामपि
ब्रह्मेशविष्णूनां वपुः शरीरं आचूडात् शिर आरभ्येत्यर्थः । आनखाग्रेभ्य:यः नखा-
ग्रमभिव्याप्येत्यर्थः । 'आङ् मर्यादाभिविध्यो : योः' ( 2-1-16 २.१.१६) इत्युभयत्र समासः ।
मायया इन्द्रजालेन प्रचुरं मायामयमिति । 'स्यान्माया शाम्बरी मायाकारस्तु
प्रातिहारिकः' इत्यमरः । इति मन्ये जाने । कदाचित् स्वीया इव भासन्ते ।
कदाचित्परकीया इव भासन्ते । अतस्तेषां कृत्यमित्थमिति प्रत्येतुमशक्यमिति
भाव:वः । परमार्थस्तु शुद्धचिन्निर्विकारचैतन्यमात्मा विग्रहो येषां ते शुद्धचिदात्मानः ।
'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । तेषां ब्रह्मेशविष्णूनां
वपुः आचूडादानखाग्रेभ्य:यः मायामयं मन्ये मिथ्याभूतं जाने सच्चिदानन्दैकरूप-
त्वात्तेषां विग्रहस्य तुच्छत्वादिति भावः ॥ तदिति ॥ तत्तस्मात्परेभ्य:यः इतरेभ्यः
 
N – 26