This page has been fully proofread twice.

प्रह्लादः प्रथमो गुरुर्भगवतस्तन्त्रेषु लक्ष्मीपतेः
व्यातेने च विरोचनं कमलभूरध्यात्मविद्यानिधिम् ।
बाणः पारिषदाग्रणीः पशुपतेस्त्वं तु प्रवेकः सतां
सिद्धानामपि योगिनामशृणवं नैवं कुलं निर्मलम् ॥ १९ ॥
 
तदत्र महाकुलप्रसूतस्य भवतो महदनुशिष्टस्य किमावेदनीयमन्यैस्स्वयमेव महाभाग स्वरूपं पर्यालोचयतु कार्यस्य ।
 
ददति च वरं दत्त्वा सद्यस्तमन्यथयन्ति च
द्रुहिणहरगोविन्दाद्या दैत्येष्विति स्फुटमेव वः ।
 
[commentary]
 
भवतीति भावः । बलेः कुलं उदितोदितकुलमित्यभिप्रायेण स्तौति ॥ प्रह्लाद इति ॥ भगवतः षड्गुण सम्पन्नस्य लक्ष्मीपतेः नारायणस्य तन्त्राणि सिद्धान्ताः पाञ्चरात्रादयः तेषु विषये । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । प्रह्लादः परमगुरुराचार्यः, महानिति वाऽर्थः । 'गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि' इति हेमचन्द्रः । कमलभूः ब्रह्मा, विरोचनम् अध्यात्मविद्यायाः ब्रह्मविद्यायाः निधिं
शेवधिं व्यातेने चकारेत्यर्थः । तथोक्तं छान्दोग्यस्य अष्टमाध्याये (८.८.४) 'स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाच' इति । बाणः बाणासुरः पशुपतेः परमेश्वरस्य परिषदि साधवः पारिषदाः । 'परिषदो ण्यः' (४.४.१०१) इत्यत्र परिषद् इति योगविभागाण्णोऽपि । तेषामग्रणीः श्रेष्ठः । 'बाणरावणचण्डीशनन्दिभृङ्गिरिटादयः' इत्यादिषु शिवभक्तगणनायां तस्य
प्रथमगणितत्वादिति भावः । त्वं तु सतां साधूनां मध्ये प्रवेकः उत्तमः । 'क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः' इत्यमरः । सिद्धानामणिमादिसम्पन्नानां कुलं योगिनां यमनियमवतां कुलमपि एवं भवत्कुलमिव निर्मलं निष्कळङ्कं यथा तथा नाशृणवं न शुश्रुवे । ब्रह्माण्डे भवत्कुलमेव सर्वोत्तममिति भावः ॥ तदिति ॥ महान् भग एव भागः समज्ञा यस्य सः तस्य सम्बुद्धिः हे महाभाग ।
'भगश्श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु' इत्यमरः । तत्तस्मादत्रेदानीं महाकुलप्रसूतस्य सद्वंशोत्पन्नस्य महता शुक्रेण अनुशिष्टस्य शिक्षितस्य भवतः अन्यैः इतरैः आवेदनीयं किं, न किमपीत्यर्थः । उचितज्ञत्वाद् इङ्गितज्ञत्वाच्च तवेति भावः ।