This page has been fully proofread twice.

स यदैव सङ्गररङ्गमारूढो योद्धुकामोऽवतस्थे,
 
तदैव तमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्मार्ष्टुं मुनिशापमालिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वरो नियुयुजे ।
 
यः शक्यो न दृशापि गोचरयितुं सत्त्वैस्तमोगन्धिभिः
यत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते ।
अध्यारुह्य तमेव मन्दरमभिध्यायन् य आस्ते शिवं
कस्तं द्रक्ष्यति कः प्रवक्ष्यति कथां देवोऽपि वा दानवः ॥ १८ ॥
 
[commentary]
 
लक्षणात् ॥ स इति ॥ स इन्द्रः यदा यत्काले सङ्गरं युद्धं तदेव रङ्गः रङ्गस्थानं तमारूढः अधिरूढस्सन् योद्धुं कामः इच्छा यस्य स तथाभूतः अवतस्थे आसीत् ॥ तदेति ॥ तदा तत्काल एव परमेश्वरः तमिन्द्रं अशरीरिण्या शरीरसम्बन्धरहितयेत्यर्थः । शरीरावच्छेदेन अनुत्पन्नयेति यावत् । गिरा 'अन्तर्धेहि रणादस्मात्' इत्येवंविधया वाचा आहवनं निवर्तयिष्यन् रणं हापयित्वा निवर्तनं
कारयिष्यन्नित्यर्थः । मुनिः दूर्वासाः तत्सम्बन्धी यः शापः अनिष्टाशंसनं तत्प्रयुक्तं मालिन्यं कालुष्यं निर्माष्टुं शोधयितुम् अधिकेन अभ्युदयेन योक्तुं योजयितुं परमे उत्कृष्टे तपसि ध्यानादौ नियुयुजे नियोगं कृतवान् ॥ य इति ॥ यः मन्दरः तमः तमोगुणः । 'तमो राहौ गुणे ध्वान्ते शूके व्योमनभोऽम्बुनोः' इति नानार्थमाला । तस्य गन्धस्सुगन्धः लेशो वा । 'गन्धो गन्धकसम्बन्धामोदलेशस्मयेषु च’ इति नानार्थमाला । तमोगन्धो एषामस्तीति तमोगन्धिनः । 'अत इनिठनौ' (५.२.११५) इतीनिप्रत्ययः । तथाभूतैः सत्त्वैः जन्तुभिः । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । दृशा दृङ्मात्रेणापि गोचरयितुं गोचरं कर्तुं विषयीकर्तुमिति यावत् । न शक्यः शक्यो न भवतीत्यर्थः । यत्र अद्रौ सनातनं पुरातनं ब्रह्म शिवाख्यं परं ब्रह्म गिरिजया पार्वत्या साकं स्वैरं स्वच्छन्दं यथा तथा परिक्रीडते विहरति तं तथाभूतं मन्दरमेव अध्यारुह्य अधिष्ठाय य इन्द्रः शिवम् उमासहायम् अनुध्यायन् अनुचिन्तयन् सन्नास्ते । तमिन्द्रं कः द्रक्ष्यति आलोकयिष्यति न कोऽपीत्यर्थः । देवः सुरः दानवः असुरोऽपि वा कः कथां इन्द्रप्रस्तावं प्रवक्ष्यति कथयिष्यति । अज्ञानिप्राणिदुर्गमे मन्दराद्रौ शिवं ध्यायत इन्द्रस्य कापि बाधा न