2023-06-05 16:40:15 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
स यदैव सङ्गररङ्ग मारूढो योद्धुकामोऽवतस्थे,
तदैव तमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्माष्टुं मुनिशाप -
मालिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वरो नियुयुजे ।
यः शक्यो न दृशापि गोचरयितुं सत्त्वैस्तमोगन्धिभिः
यत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते ।
अध्यारुह्य तमेव मन्दरमभिध्यायन् य आस्ते शिवं
कस्तं द्रक्ष्यति कः प्रवक्ष्यति कथां देवोऽपि वा दानवः ॥ १८ ॥
लक्षणात् ॥ स इति ॥ स इन्द्रः यदा यत्काले सङ्गरं युद्धं तदेव रङ्गः रङ्गस्थानं
तमारूढः अघिरूढस्सन् योद्धुं कामः इच्छा यस्य स तथाभूतः अवतस्थे
आसीत् ॥ तदेति ॥ तदा तत्काल एव परमेश्वर: तमिन्द्रं अशरीरिण्या शरीर-
सम्बन्धरहितयेत्यर्थः । शरीरावच्छेदेन अनुत्पन्नयेति यावत् । गिरा 'अन्तर्घेहि
रणादस्मात्' इत्येवंविधया वाचा आहवनं निवर्तयिष्यन् रणं हापयित्वा निवर्तनं
कारयिष्यन्नित्यर्थः । मुनिः दूर्वासाः तत्सम्बन्धी यः शाप: अनिष्टाशंसनं तत्प्रयुक्तं
मालिन्यं कालुष्यं निर्माष्टुं शोधयितुम् अधिकेन अभ्युदयेन योक्तुं योजयितुं परमे
उत्कृष्टे तपसि ध्यानादौ नियुयुजे नियोगं कृतवान् ॥ य इति ॥ यः मन्दरः तमः
तमोगुणः । 'तमो राहौ गुणे ध्वान्ते शूके व्योमनभोऽम्बुनोः' इति नानार्थ-
माला । तस्य गन्धस्सुगन्ध: लेशो वा । 'गन्धो गन्धकसम्बन्धामोदलेशस्मयेषु च
इति नानार्थमाला । तमोगन्धो एषामस्तीति तमोगन्धिनः । 'अत इनिठनौ'
(5-2-115) इतीनिप्रत्ययः । तथाभूतैः सत्त्वैः जन्तुभिः । 'द्रव्यासुव्यवसायेषु
सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । दृशा दृङ्मात्रेणापि गोचरयितुं गोचरं कर्तुं विषयी-
कर्तुमिति यावत् । न शक्यः शक्यो न भवतीत्यर्थः । यत्र अद्रौ सनातनं पुरातनं ब्रह्म
शिवाख्यं परं ब्रह्म गिरिजया पार्वत्या साकं स्वैरं स्वच्छन्दं यथा तथा परिक्रीडते
विहरति तं तथाभूतं मन्दरमेव अध्यारुह्य अधिष्ठाय य इन्द्रः शिवम् उमासहायम्
अनुध्यायन् अनुचिन्तयन् सन्नास्ते । तमिन्द्रं कः द्रक्ष्यति आलोकयिष्यति न
कोऽपीत्यर्थः । देवः सुर: दानवः असुरोऽपि वा कः कथां इन्द्रप्रस्ताव प्रवक्ष्यति
कथयिष्यति । अज्ञानिप्राणिदुर्गमे मन्दराद्रौ शिवं ध्यायत इन्द्रस्य कापि बाधा न.
।