This page has been fully proofread twice.

तदभिगम्यापि[^१] सुदूरमवलोकयितव्यः पुण्यश्लोको जन इत्यागतोऽस्मि ।
 
भ्रातुरपि ते वृत्तान्तमावेदयामि ।
 
यस्यैवं भूर्भुवःस्वर्भुवनपरिबृढो वर्तसे पूर्वजस्त्वं
दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा ।
संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेत्रं
प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात् ॥ १७ ॥
 
[commentary]
 
केनचित् प्रकारेण यत्किञ्चिद्दत्तवतोऽपि महापुण्यं, तादृशयज्ञकाले साक्षाद्विष्णवे पात्रभूताय विधिं निखिलं ब्रह्माण्डं दत्तवतः तव पुण्यं कियत्, तव कीर्तिश्च कियतीति वक्तव्यमिति भावः ॥ तदिति ॥ तत् तस्मात्, सुदूरम् बहुदूरम् अधिगम्य गत्वापि पुण्यः पुण्यसम्पादकः श्लोकः यशः यस्य स तथाभूतः । 'पद्ये यशसि च श्लोकः' इत्यमरः । अवलोकयितव्यः द्रष्टव्यः । 'सन्तस्सदाभिगन्तव्या' इति शास्त्रादिति भावः । इतीत्थमालोच्य आगतः आयातोऽस्मि ॥ भ्रातुरिति ॥ ते तव भ्रातुरिन्द्रस्य वृत्तान्तमावेदयामि विनिवेदयामि ॥ यस्येति ॥ यस्य इन्द्रस्य भूश्च भुवश्च स्वश्च भूर्भुवस्स्वः । अव्ययमेतत् । भूर्भुवस्स्वर्भूम्यन्तरिक्षस्वर्ग इति यानि भुवनानि तेषां परिबृढः प्रभुः । 'प्रभौ परिबृढः' (७.२.२१) इति निपातनात्साधुः । पूर्वजः अग्रजः त्वमेव महोन्नत इत्यर्थः । वर्तसे तिष्ठसि । दुर्दान्ता दुष्टाः त एव ध्वान्तं तमः तस्य भानुः सूर्यसदृशः स भगवान् विष्णुरेव यस्य इन्द्रस्य अनुजन्मा अवरज:जः कश्यपपुत्रत्वात् त्रयाणामिति भावः । य इन्द्रः त्रिभिः करणैः वाड्मनःकायलक्षणैरुपकरणैः देवानां ब्रह्मादीनामपि देवं स्वामिनं त्रीणि नेत्राणि यस्य स तथाभूतं परमेश्वरं शरण्यं संरक्षणनिपुणं सम्प्राप्तः अभिगतः तस्येन्द्रस्य कस्मिन्विषये कुशलं क्षेमं प्रष्टव्यम् अनुयोक्तव्यम् । सदा तस्य कुशलमेवेति भावः जिष्णोः स्वतः जयशीलस्य एतस्य इन्द्रस्य अकुशलं कुतः कस्मात् स्याद्भवेत् । कदाचिदपि तस्याकुशलं न भवेदेवेति भावः । अत्र त्रिणेत्रे इति विशेष्यस्य लोचनत्र्यवत्त्वप्रतिपादनेन संरक्षकाभिप्रायगर्भत्वात् परिकराङ्कुरालङ्कारः । 'साभिप्राये विशेष्ये तु भवेत् परिंकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥' इति
 
[^१] 'अधिगम्य' इति व्याख्यापाठः ।