This page has been fully proofread once and needs a second look.

१९८
 
नीलकण्ठविजये सव्याख्याने
 
तदभिगम्यापि[^१] सुदूरमवलोकयितव्यः पुण्यश्लोको जन इत्या-
गतोऽस्मि ।
 

 
भ्रातुरपि ते वृत्तान्तमावेदयामि ।

 
यस्यैवं भूर्भुवःस्वर्भुवनपरिवृबृढो वर्तसे पूर्वजस्त्वं

दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा ।

संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेत्रं

प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात् ॥ १७
 

 
[commentary]
 
केनचित् प्रकारेण यत्किञ्चिद्दत्तवतोऽपि महापुण्यं, तादृशयज्ञकाले साक्षाद्विष्णवे
पात्रभूताय विधिं निखिलं ब्रह्माण्डं दत्तवतः तव पुण्यं कियत्, तव कीर्तिश्च किय-
तीति वक्तव्यमिति भावः ॥ तदिति ॥ तत् तस्मात्, सुदूरम् बहुदूरम् अधिगम्य
गत्वापि पुण्यः पुण्यसम्पादक:कः श्लोक:कः यशः यस्य स तथाभूतः । 'पद्ये यशसि च
श्लोकः' इत्यमरः । अवलोकयितव्यः द्रष्टव्यः । 'सन्तस्सदाभिगन्तव्या' इति
शास्त्रादिति भावः । इतीत्थमालोच्य आगतः आयातोऽस्मि ॥ भ्रातुरिति ॥ ते तव
भ्रातुरिन्द्रस्य वृत्तान्तमावेदयामि विनिवेदयामि ॥ यस्येति ॥ यस्य इन्द्रस्य भूश्च
भुवश्च स्वश्च भूर्भुवस्स्वः । अव्ययमेतत् । भूर्भुवस्स्वर्भूम्यन्तरिक्षस्वर्ग इति यानि
भुवनानि तेषां परिबृढः प्रभुः । 'प्रभौ परिबृढः' (7-2-21 ७.२.२१) इति निपातनात्साधुः ।
पूर्वजः अग्रजः त्वमेव महोन्नत इत्यर्थः । वर्तसे तिष्ठसि । दुर्दान्ता दुष्टाः त एव
ध्वान्तं तमः तस्य भानुः सूर्यसदृशः स भगवान् विष्णुरेव यस्य इन्द्रस्य अनुजन्मा
अवरज: कश्यपपुत्रत्वात् त्रयाणामिति भावः । य इन्द्रः त्रिभिः करणैः वाड्मनः-
कायलक्षणैरुपकरणैः देवानां ब्रह्मादीनामपि देवं स्वामिन त्रीणि नेत्राणि यस्य स
तथाभूतं परमेश्वरं शरण्यं संरक्षणनिपुणं सम्प्राप्तः अभिगतः तस्येन्द्रस्य कस्मिन्
विषये कुशलं क्षेमं प्रष्टव्यम् अनुयोक्तव्यम् । सदा तस्य कुशलमेवेति भावः
जिष्णोः स्वतः जयशीलस्य एतस्य इन्द्रस्य अकुशलं कुतः कस्मात् स्याद्भवेत् । कदा-
चिदपि तस्याकुशलं न भवेदेवेति भावः । अत्र त्रिणेत्रे इति विशेष्यस्य लोचन-
त्र्यवत्त्वप्रतिपादनेन संरक्षकाभिप्रायगर्भत्वात् परिकराङ्कुरालङ्कारः । 'साभि-
प्राये विशेष्ये तु भवेत् परिंकराङ्कुर:रः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ इति
 
1.
’ इति
 
[^१]
'अधिगम्य' इति व्याख्यापाठः ।