2023-09-14 07:20:12 by Bharadwajraki
This page has been fully proofread twice.
'भगवन् [^१]दिष्ट्यासि दृष्टश्चिराय । किमागमनकारणम्, किं कुशली मे भ्राता पुरन्दरः, स किं करोति, किमावसति, नामापि तस्य न शृणुमहे तदाप्रभृति' इत्यनुयुञ्जाने बलौ सोत्प्रासमाददे गिरमाङ्गिरसः ।
देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवाखिलं
पात्रं यस्य जगन्निधिः स भगवान् देवस्सरोजेक्षणः ।
शिष्यो भूतपतेरसौ कुलगुरुर्यस्योशना भार्गवः
कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम् ॥१६॥
[commrntary]
अथ सँल्लापनप्रकारमेवाह वाक्यद्वयेन ॥ भगवन्निति ॥ हे भगवन् हे बृहस्पते चिराद्बहुकालस्य दृष्टः अवलोकितः । मयेति शेषः । दिष्ट्येत्यव्यम् । सन्तोषो जात इत्यभिप्रायः । 'दिष्ट्या समुपजोषञ्चेत्यानन्देऽथान्तरेऽन्तरा' इत्यमरः ॥ किमिति ॥ आगमनस्य मन्निकटप्राप्तेः कारणं निमित्तं किमिति प्रश्ने । मे भ्राता सहोदरः पुरन्दरः इन्द्रः कुशली क्षेमवान् किं, स किं करोति कंववा
व्यापारमाचरतीत्यर्थः । किमावसति कस्मिन् देशे वसतीत्यर्थः । 'उपान्वध्याङ्वसः' (१.४.४८) इति वसतेराधारस्य कर्मत्वम् । तस्य इन्द्रस्य नामापि तदाप्रभृति तदारभ्येत्यर्थः । न शृणुमहे न शृणुमः । इतीत्थं बलौ असुरराजे अनुयुञ्जाने पृच्छति सति आङ्गिरसो बृहस्पतिः सोत्प्रासं सोपहासं यथा तथा गिरं वाचमाददे स्वीचकार । 'स्यादाच्छुरितकं हासस्सोत्प्रासस्समनाक्स्मितम् ।' 'सोल्लुण्ठनं तु सोत्प्रासम्' इत्यमरः ॥ देयमिति ॥ हे दानवराज बले यस्य पुंसः सदेवमर्त्यभुजगं स्वर्गमर्त्यपाताळलोकसहितम् अखिलं समस्तं विध्यण्डं ब्रह्माण्डमेव देयं यस्य प्रदेयद्रव्यं जगतां निधिः आधारभूतो भगवान् षड्गुणसम्पन्नः देवः प्रकाशमानः सः सरोजेक्षणः पुण्डरीकाक्षः पात्रं दानपात्रम् । यस्य भार्गवः भृगुगोत्रोत्पन्नः भूतपतेरीश्वरस्य शिष्यः असावुशना शुक्रः कुलस्य गुरुर्विद्योपदेष्टा, तस्य तथाविधस्य भवतः तव कीर्तिर्यशः कासां गिरां वाचां पारे परभागे नास्त्येवेत्यर्थः । यस्मिन्क स्मिन् श्रोत्रियब्राह्मणे विष्णुमावाह्य कस्मैचित्तस्मै यस्मिन् कस्मिन् काले येन-
[^१] दिष्टिः दैवं -- तेन इत्यर्थे तृतीयान्तः दिष्ट्याशब्दः नात्र समुचितः । अतः सन्तोषो जात इत्यर्थेऽव्ययं दिष्ट्याशब्दं व्याचष्टे ॥
देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवाखिलं
पात्रं यस्य जगन्निधिः स भगवान् देवस्सरोजेक्षणः ।
शिष्यो भूतपतेरसौ कुलगुरुर्यस्योशना भार्गवः
कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम् ॥१६॥
[commrntary]
अथ सँल्लापनप्रकारमेवाह वाक्यद्वयेन ॥ भगवन्निति ॥ हे भगवन् हे बृहस्पते चिराद्बहुकालस्य दृष्टः अवलोकितः । मयेति शेषः । दिष्ट्येत्यव्यम् । सन्तोषो जात इत्यभिप्रायः । 'दिष्ट्या समुपजोषञ्चेत्यानन्देऽथान्तरेऽन्तरा' इत्यमरः ॥ किमिति ॥ आगमनस्य मन्निकटप्राप्तेः कारणं निमित्तं किमिति प्रश्ने । मे भ्राता सहोदरः पुरन्दरः इन्द्रः कुशली क्षेमवान् किं, स किं करोति कं
व्यापारमाचरतीत्यर्थः । किमावसति कस्मिन् देशे वसतीत्यर्थः । 'उपान्वध्याङ्वसः' (१.४.४८) इति वसतेराधारस्य कर्मत्वम् । तस्य इन्द्रस्य नामापि तदाप्रभृति तदारभ्येत्यर्थः । न शृणुमहे न शृणुमः । इतीत्थं बलौ असुरराजे अनुयुञ्जाने पृच्छति सति आङ्गिरसो बृहस्पतिः सोत्प्रासं सोपहासं यथा तथा गिरं वाचमाददे स्वीचकार । 'स्यादाच्छुरितकं हासस्सोत्प्रासस्समनाक्स्मितम् ।' 'सोल्लुण्ठनं तु सोत्प्रासम्' इत्यमरः ॥ देयमिति ॥ हे दानवराज बले यस्य पुंसः सदेवमर्त्यभुजगं स्वर्गमर्त्यपाताळलोकसहितम् अखिलं समस्तं विध्यण्डं ब्रह्माण्डमेव देयं यस्य प्रदेयद्रव्यं जगतां निधिः आधारभूतो भगवान् षड्गुणसम्पन्नः देवः प्रकाशमानः सः सरोजेक्षणः पुण्डरीकाक्षः पात्रं दानपात्रम् । यस्य भार्गवः भृगुगोत्रोत्पन्नः भूतपतेरीश्वरस्य शिष्यः असावुशना शुक्रः कुलस्य गुरुर्विद्योपदेष्टा, तस्य तथाविधस्य भवतः तव कीर्तिर्यशः कासां गिरां वाचां पारे परभागे नास्त्येवेत्यर्थः । यस्मिन्क
[^१] दिष्टिः दैवं -- तेन इत्यर्थे तृतीयान्तः दिष्ट्याशब्दः नात्र समुचितः । अतः सन्तोषो जात इत्यर्थेऽव्ययं दिष्ट्याशब्दं व्याचष्टे ॥