This page has not been fully proofread.

तृतीया श्वासः
 
१९७
 
'भगवन् 'दिष्ट्यासि दृष्टश्चिराय । किमागमनकारणम्, किं
कुशली मे भ्राता पुरन्दरः स किं करोति, किमावसति, नामापि तस्य
न शृणुमहे तदाप्रभृति' इत्यनुयुञ्जाने बलौ सोत्प्रासमाददे गिरमा-
ङ्गिरसः ।
 
देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवा खिलं
 
पात्रं यस्य जगन्निधिः स भगवान् देवस्सरोजेक्षणः ।
शिष्यो भूतपतेरसौ कुलगुरुर्यस्योशना भार्गवः
 
कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम् ॥१६॥
 

 
अथ सँल्लापनप्रकारमेवाह वाक्यद्वयेन ॥ भगवन्निति ॥ हे भगवन् हे
बृहस्पते चिराद्वहुकालस्य दृष्ट अवलोकित: । मयेति शेषः । दिष्टचेत्यव्यम् ।
सन्तोषो जात इत्यभिप्राय: । 'दिष्टया समुपजोषञ्चेत्यानन्देऽथान्तरेऽन्तरा'
इत्यमरः ॥ किमिति ॥ आगमनस्य मन्निकटप्राप्तेः कारणं निमित्तं किमिति
प्रश्ने । मे भ्राता सहोदरः पुरन्दर: इन्द्रः कुशली क्षेमवान् किं, स किं करोति कं व
व्यापारमाचरतीत्यर्थः । किमावसति कस्मिन् देशे वसतीत्यर्थः । 'उपान्वध्याङ्कसः'
(1-4-48) इति वसतेराधारस्य कर्मत्वम् । तस्य इन्द्रस्य नामापि तदाप्रभृति तदा-
रभ्येत्यर्थः । न शृणुमहे न शृणुमः । इतीत्थं बलौ असुरराजे अनुयुञ्जाने पृच्छति
सति आङ्गिरसो बृहस्पतिः सोत्प्रासं सोपहासं यथा तथा गिरं वाचमाददे स्वीचकार ।
'स्यादाच्छुरितकं हासस्सोत्प्रासस्समनाक स्मितम् ।' 'सोल्लुण्ठनं तु सोत्प्रासम्'
इत्यमरः ॥ देयमिति ॥ हे दानवराज बले यस्य पुंसः सदेवमर्त्यभुजगं
स्वर्गमर्त्यपाताळलोकसहितम् अखिलं समस्तं विध्यण्डं ब्रह्माण्डमेव देयं यस्य प्रदेय-
द्रव्यं जगतां निधि: आधारभूतो भगवान् षड्गुणसम्पन्नः देव: प्रकाशमानः
सः सरोजेक्षणः पुण्डरीकाक्षः पात्रं दानपात्रम् । यस्य भार्गवः भृगुगोत्रोत्पन्नः भूत-
पतेरीश्वरस्य शिष्यः असावुशना शुक्रः कुलस्य गुरुर्विद्योपदेष्टा, तस्य तथाविधस्य
भवतः तव कीर्तिर्यशः कासां गिरां वाचां पारे परभागे नास्त्येवेत्यर्थः । यस्मिन्
कस्मिन् श्रोत्रियब्राह्मणे विष्णुमावाह्य कस्मैचित्तस्मै यस्मिन् कस्मिन् काले येन-
1. दिष्टि: दैवं - तेन इत्यर्थे तृतीयान्तः दिष्टयाशब्द: नात्र समुचितः । अत:
सन्तोषो जात इत्यर्थेऽव्ययं दिष्ट्याशब्दं व्याचष्टे ॥