This page has been fully proofread twice.

जानाम्येव यदाह पद्मनिलयो यच्चाह विश्वम्भरो
यञ्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते ।
कस्त्वं सङ्घटनेऽसि को विघटनेऽस्म्याकृष्य विश्वात्मना
योक्ष्यन्ते न चिरेण चेह तृणवद्वातेन देवासुराः ॥ १५ ॥
 
तदस्तु यथातथा वा सम्मुखीकरिष्यामि दानवान्, सम्भावयिष्यामि च भवन्तं ततो यथामनोरथमभिधीयताम्' इत्युपच्छन्द्यa, समानीय बलेस्सभाम्, सभाजयन् विविधैरुपचारैः, सँल्लापयामास वासवगुरुम् ।
 
[commentary]
 
वक्ष्यमाणमेव । तदेवाह ॥ जानामीति ॥ वेदानां ऋगादीनां निलयः स्थानं ब्रह्मा यद्वचनं आह युष्मान् प्रतीति शेषः उवाच । विश्वम्भरः नारायणश्च यदाह । ब्रह्माणं प्रतीति शेषः । ते तव हृदि मनसि च यत् आस्ते वर्तते अग्रे कालान्तरेऽपि यथा किल येन वा प्रकारेणेत्यर्थः । विवर्तिष्यते भविष्यति तत्सर्वं जानामि वेद्म्येवेत्यर्थः । सङ्घटने [^१]सन्धानविषये त्वं कः विघटने सन्ध्यघटनविषये अहमपि कः पदार्थोऽस्मि भवामि । कार्यसामान्यस्यापि दैवायत्तत्वादावयोरत्र किं स्वातन्त्र्ययमिति भावः । इह इदानीं वातेन पवनेन तृणैस्तुल्यं तृणवत् । 'तेन तुल्यम् --’ (५.१.११५) इति वतिः । परस्परं तृणानीवेति यावत् । विश्वात्मना विश्वस्वरूपेण परमेश्वरेण । 'पुरुष एवेदं सर्वम्' इति श्रुतेः । आकृष्य आकर्षणं कृत्वा । हठादिति शेषः । देवासुराः न चिरेण झडिति योक्ष्यन्ते सङ्घटिता भविष्यन्ति ॥ तदिति ॥ तदस्तु सङ्घटनचिन्तनं तिष्ठतु । अहमित्यस्य गम्यमानत्वादप्रयोगः । यथा वा यथातथा वा यथाकथञ्चिदित्यर्थः । दानवान् असुरान् सम्मुखीकरिष्यामि ततः दानवेभ्यः भवन्तं सम्भावयिष्यामि बहुमानं प्रापयिष्यामि । ततः अनन्तरं यथामनोरथं यथाकाममभिधीयतामुच्यतामित्युपच्छाद्य
सन्तोष्य बलेरसुरराजस्य सभामास्थानं समानीय प्रापयित्वा विविधैरनेकप्रकारैरुपचारैः अर्हणैर्वासवगुरुं सभाजयन् पूजां कारयिष्यन् सन् सँल्लापयामास मिथः वासवगुरुदानवयोः भाषणं कारयामासेत्यर्थः । 'सँल्लापो भाषणं मिथः' इत्यमरः ।
 
a. 'उपच्छाय' इति व्याख्यापाठः ।
 
[^१] "दैवमेव परं मन्ये पौरुषं तु निरर्थकम्" -- "कर्मण्येवाधिकारस्ते मा फलेषु कदाचन" इति -- बहुशास्त्रदर्शनात् -- संघटनं विघटनं वा न पौरुषसाध्यमिति भावः ॥