This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
जानाम्येव यदाह पद्मनिलयो यच्चाह विश्वम्भरो

यञ्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते ।

कस्त्वं सङ्घटनेऽसि को विघटनेऽस्म्याकृष्य विश्वात्मना

योक्ष्यन्ते न चिरेण चेह तृणवद्वातेन देवासुराः ॥ १५ ॥
 

 
तदस्तु यथातथा वा सम्मुखीकरिष्यामि दानवान्, सम्भावयि-
ष्यामि च भवन्तं ततो यथामनोरथमभिधीयताम्' इत्युपच्छन्द्य a, समा-
नीय बलेस्सभाम्, स्त्रभाजयन् विविधैरुपचारैः, सँल्लापयामास वासव -
गुरुम् ।
 
."
 

 
[commentary]
 
वक्ष्यमाणमेव । तदेवाह ॥ जानामीति ॥ वेदानां ऋगादीनां निलयः स्थानं
ब्रह्मा यद्वचनं आह युष्मान् प्रतीति शेष:षः उवाच । विश्वम्भरः नारायणश्च
यदाह । ब्रह्माणं प्रतीति शेषः । ते तव हृदि मनसि च यत् आस्ते वर्तते अग्रे
कालान्तरेऽपि यथा किल येन वा प्रकारेणेत्यर्थः । विवर्तिष्यते भविष्यति तत्सर्
वं जानामि वेद्म्येवेत्यर्थः । सङ्घटने '[^१]सन्धानविषये त्वं कः विघटने सन्ध्यघटनविषये
अहमपि कः पदार्थोऽस्मि भवामि । कार्यसामान्यस्यापि दैवायत्तत्वादावयोरत्र किं
स्वातन्त्व
स्वातन्त्र्ययमिति भावः । इह इदानीं बावातेन पवनेन तृणैस्तुल्यं तृणवत् । 'तेन
तुल्यम् --’ ( 5-1-115५.१.११५) इति वतिः । परस्परं तृणानीवेति यावत् । विश्वात्मना
विश्वस्वरूपेण परमेश्वरेण । " 'पुरुष एवेदं सर्वम्' इति श्रुतेः ।
आकृष्य आकर्षणं कृत्वा । हठादिति शेषः । देवासुराः न चिरेण झडिति योक्ष्यन्ते
सङ्घटिता भविष्यन्ति ॥ तदिति ॥ तदस्तु सङ्घटनचिन्तनं तिष्ठतु । अहमित्यस्य
गम्यमानत्वादप्रयोगः । यथा वा यथातथा वा यथाकथञ्चिदित्यर्थः । दानवान्
असुरान् सम्मुखीकरिष्यामि ततः दानवेभ्यः भवन्तं सम्भावयिष्यामि बहुमानं प्राप-
यिष्यामि । ततः अनन्तरं यथामनोरथं यथाकाममभिधीयतामुच्यतामित्युपच्छाद्य

सन्तोष्य बलेरसुरराजस्य सभामास्थानं समानीय प्रापयित्वा विविधैरनेकप्रकारै-
रुपचारैः अर्हणैर्वासवगुरुं सभाजयन् पूजां कारयिष्यन् सन् सँल्लापयामास मिथ:
बा
थः वासवगुरुदानवयोः भाषणं कारयामासेत्यर्थः । 'सँल्लापो भाषणं मिथः' इत्यमरः ।

 
a.
'उपच्छाय ' इति व्याख्यापाठः ।
 
a.
 
-
 
1.

 
[^१]
" हैदैवमेव परं मन्ये पौरुषं तु निरर्थकम् " -- "कर्मण्येवाधिकारस्ते मा फलेषु
कदाचन " इति -- बहुशास्त्रदर्शनात् -- संघटनं विघटनं वा न पौरुषसाध्यमिति भावः ॥
 
d
 
6