This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
जानाम्येव यदाह पद्मनिलयो यच्चाह विश्वम्भरो
यञ्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते ।
कस्त्वं सङ्घटनेऽसि को विघटनेऽस्म्याकृष्य विश्वात्मना
योक्ष्यन्ते न चिरेण चेह तृणवद्वातेन देवासुराः ॥ १५ ॥
 
तदस्तु यथातथा वा सम्मुखीकरिष्यामि दानवान्, सम्भावयि-
ष्यामि च भवन्तं ततो यथामनोरथमभिधीयताम्' इत्युपच्छन्द्य , समा-
नीय बलेस्सभाम्, स्त्रभाजयन् विविधैरुपचारैः सँल्लापयामास वासव -
गुरुम् ।
 
."
 
वक्ष्यमाणमेव । तदेवाह ॥ जानामीति ॥ वेदानां ऋगादीनां निलयः स्थानं
ब्रह्मा यद्वचनं आह युष्मान् प्रतीति शेष: उवाच । विश्वम्भरः नारायणश्च
यदाह । ब्रह्माणं प्रतीति शेषः । ते तव हृदि मनसि च यत् आस्ते वर्तते अग्रे
कालान्तरेऽपि यथा किल येन वा प्रकारेणेत्यर्थः । विवर्तिष्यते भविष्यति तत्सर्व
जानामि वेमवेत्यर्थः । सङ्घटने 'सन्धानविषये त्वं कः विघटने सन्ध्यघटनविषये
अहमपि कः पदार्थोऽस्मि भवामि । कार्यसामान्यस्यापि दैवायत्तत्वादावयोरत्र किं
स्वातन्त्वयमिति भावः । इह इदानीं बातेन पवनेन तृणैस्तुल्यं तृणवत् । 'तेन
तुल्यम् – ( 5-1-115) इति वतिः । परस्परं तृणानीवेति यावत् । विश्वात्मना
विश्वस्वरूपेण परमेश्वरेण । " पुरुष एवेदं सर्वम् । इति श्रुतेः ।
आकृष्य आकर्षणं कृत्वा। हठादिति शेषः । देवासुराः न चिरेण झडिति योक्ष्यन्ते
सङ्घटिता भविष्यन्ति ॥ तदिति ॥ तदस्तु सङ्घटनचिन्तनं तिष्ठतु । अहमित्यस्य
गम्यमानत्वादप्रयोगः । यथा वा यथातथा वा यथाकथञ्चिदित्यर्थः । दानवान्
असुरान् सम्मुखीकरिष्यामि ततः दानवेभ्यः भवन्तं सम्भावयिष्यामि बहुमानं प्राप-
यिष्यामि । ततः अनन्तरं यथामनोरथं यथाकाममभिधीयतामुच्यतामित्युपच्छाद्य
सन्तोष्य बलेरसुरराजस्य सभामास्थानं समानीय प्रापयित्वा विविधैरनेकप्रकारै-
रुपचारैः अर्हणैर्वासवगुरुं सभाजयन् पूजां कारयिष्यन् सन् सँल्लापयामास मिथ:
बासवगुरुदानवयोः भाषणं कारयामासेत्यर्थः । 'सँल्लापो भाषणं मिथः' इत्यमरः ।
'उपच्छाय ' इति व्याख्यापाठः ।
 
a.
 
-
 
1. " हैवमेव परं मन्ये पौरुषं तु निरर्थकम् " - "कर्मण्येवाधिकारस्ते मा फलेषु
कदाचन " इति बहुशास्त्रदर्शनात् – संघटनं विघटन वा न पौरुषसाध्यमिति भावः ॥
 
d
 
6