This page has been fully proofread twice.

तत्कथञ्चिदेकीकृत्य देवासुरानेकान्तशीलाभ्यामावाभ्यामासितव्यमिति वक्तुकामोऽहमागतोऽस्मि ।' इत्यभिहितो गुरुणा यथार्थमेव तदालोचयन् कविरिदमाबभाषे । 'भगवन्नेवमेवैतत् । तथा हि ।
 
[commentary]
 
भावः । तेन दुर्धियां दनुभुवामाचार्यकं पुरोहितत्वं द्रोहप्रचुरासुराचार्यत्वेन जीवनं भवतो निर्दिष्टमिति भावः । मीमांसकैरिति [^१]छेदः । विचारयितृभिरित्यर्थः । मादृशैः मद्विधैः अर्थः निवृत्तिः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । तेन गहने, दुष्प्रवेशे निवर्तितुमस्मिन्नशक्यमिति भावः । अस्मिन्सन्दिग्धविषये किं करणीयं वेधसं प्रति त्वया सर्वेषां किमर्थं तथा निर्दिष्टं मम तु
किमर्थमेवं निर्दिष्टमिति प्रष्टुमप्यस्माभिर्न शक्यमिति भावः । तदपीत्यत्र पदद्वयं
तत्पूर्वोक्तभगवदादेशद्वयमनुवर्तितुमाकाशवद्वर्तितुमपि त्वं तु शक्तः खलु । शिष्टं पूर्ववत् ज्ञेयम् । अत्र केचित् । येनेति ॥ येन वेधसा विधिना जनिमतां जीवनं न विद्यते द्रोहोऽपकारो येभ्यः । सार्वविभक्तिकस्तसिः । ततः साधुभ्य इत्यर्थः । आदिश्यत तेनैव त्वयि दुर्धियां दुर्बुद्धीनां घातुकानामित्यर्थः । दनुभुवां दानवानाम् आचार्यकम् आचार्यत्वं आदेष्टृत्वमित्यर्थः । आदिष्टं निर्दिष्टं दानवादेष्टृत्वस्यानितरसाध्यत्वात् त्वदायत्तीकृतमिति भावः । अर्थेन याच्ञया गहने असाध्ये
दानवानां दण्डैकसाध्यत्वादिति भावः । अस्मिन् दूत्यविषये मीमांसकैः विचिकित्सापरैर्मादृशैः किं कर्तव्यम् अस्मदुचितानुनयानवकाश इत्याशयः । त्वं तु तत् देवदानवसम्बन्धि दौत्यम् अनुवर्तितुं स्वीकर्तुं आकाशवद्वर्तितुमपि असुराचार्यत्वाद्दूत्यप्रयुक्तन्यूनताराहित्येन गौरवेण स्थातुमपीत्यर्थः । शक्तस्समर्थः । अनितरसाध्यदुष्टदानवशिक्षकस्य तव किमसाध्यमिति भाव इति वदन्ति ॥ तदिति ॥
तत्तस्माद्दानवाचार्यत्वादित्यर्थः । कथञ्चित् केनापि प्रकारेण देवासुरान्निर्जरदानवान् एकीकृत्य आवाभ्यामेकान्तशीलाभ्यामासितव्यं स्थातव्यं इत्येवंप्रकारेणाहं वक्तुं काम इच्छा यस्य स तथाभूतस्सन् आगतोऽस्मि । देवासुरयोरैकमत्यमन्तरा तदाचार्ययोरावयोरेकान्ते स्थितिरेव न भविष्यतीति भावः ॥ इतीति ॥ गुरुणा बृहस्पतिना इतीत्थमभिहित उक्तः कविश्शुक्रस्तद्गुरुवचनं यथार्थमालोचयन् विभावयन्सन् इदं बुद्धिस्थमाबभाषे जगाद ॥ भगवन्निति ॥ हे भगवन् एतद्बुद्धिस्थं एवमेव
 
[^१] अमीमांसकैः, मीमांसकैः इति विभागद्वयेऽपि, अर्थशब्दस्य, भावनिवृत्तिरूपविरुद्धार्थस्वीकारेऽपि मूलं योजयन् व्याख्याता महान्तमामोदं रसिकानामुत्पादयति ॥