This page has been fully proofread once and needs a second look.

तृतीया श्वांसः
 
१९५
 
तत्कथञ्चिदेकीकृत्य देवासुरानेकान्तशीलाभ्यामावाभ्यामासित-
व्यमिति वक्तुकामोऽहमागतोऽस्मि ।"' इत्यभिहितो गुरुणा यथार्थमेव
तदालोचयन् कविरिदमाभाषे । 'भगवन्नेवमेवैतत् । तथा हि ।
 

 

 
[commentary]
 
भावः । तेन दुर्घिधियां दनुभुवामाचार्यकं पुरोहितत्वं द्रोहप्रचुरासुराचार्यत्वेन जीवनं
भवतो निर्दिष्टमिति भावः । मीमांसकैरिति '[^१]छेदः । विचारयितृभिरित्यर्थः ।
मादृशैः मद्विधैः अर्थः निवृत्तिः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः ।
तेन गहने, दुष्प्रवेशे निवर्तितुमस्मिन्नशक्य मिति भावः । अस्मिन्
सन्दिग्धविषये किं करणीयं वेधसं प्रति त्वया सर्वेषां किमर्थं तथा निर्दिष्टं मम तु

किमर्थमेवं निर्दिष्टमिति प्रष्टमप्यस्माभिर्न शक्यमिति भावः । तदपीत्यत्र पदद्वयं

तत्पूर्वोक्तभगवदादेशद्वयमनुवर्तितुमाकाशवद्वर्तितुमपि त्वं तु शक्तः खलु । शिष्टं
पूर्ववत् ज्ञेयम् । अत्र केचित् । येनेति ॥ येन वेसा विधिना जनिमतां जीव
नं न विद्यते द्रोहोऽपकारो येभ्यः । सार्वविभक्तिकस्तसिः । ततः साधुभ्य इत्यर्थः ।
आदिश्यत तेनैव त्वयि दुर्धियां दुर्बुद्धीनां घातुकानामित्यर्थः । दनुभुवां
दानवानाम् आचार्यकम् आचार्यत्वं आदेष्टृत्वमित्यर्थः । आदिष्टं निर्दिष्टं दानवादेष्टृत्व-
स्यानितरसाध्यत्वात् त्वदायत्तीकृतमिति भावः । अर्थेन याच्ञया गहने असाध्ये

दानवानां दण्डैकसाध्यत्वादिति भावः । अस्मिन् दूत्यविषये मीमांसकैः विचिकि-
त्सापरैर्मादृशैः किं कर्तव्यम् अस्मदुचितानुनयानवकाश इत्याशयः । त्वं तु तत्
देवदानवसम्बन्धि दौत्यम् अनुवर्तितुं स्वीकर्तुं आकाशवद्वर्तितुम पि असुराचार्यत्वाद्-
दूत्यप्रयुक्तन्यूनताराहित्येन गौरवेण स्थातुमपीत्यर्थः । शक्तस्समर्थः । अनितरसा-
ध्यदुष्टदानवशिक्षकस्य तव किमसाध्यमिति भाव इति वदन्ति ॥ तदिति ॥

तत्तस्माद्दानवाचार्यत्वादित्यर्थः । कथञ्चित् केनापि प्रकारेण देवासुरान्निर्जरदा-
नवान् एकीकृत्य आवाभ्यामेकान्तशीलाभ्यामा सितव्यं स्थातव्यं इत्येवंप्रकारेणाहं
वक्तुं काम इच्छा यस्य स तथाभूतस्सन् आगतोऽस्मि । देवासुरयोरैकमत्यमन्तरा
तदाचार्ययोरावयोरेकान्ते स्थितिरेव न भविष्यतीति भावः ॥ इतीति ॥ गुरुणा बृह-
स्पतिना इतीत्थमभिहित उक्तः कविश्शुक्रस्तद्गुरुवचनं यथार्थमालोचयन् विभावयन्
सन् इदं बुद्धिस्थमाबभाषे जगाद ॥ भगवन्निति ॥ हे भगवन् एतद्बुद्धिस्थं एवमेव
 
1.

 
[^१]
अमीमांसकैः, मीमांसकैः इति विभागद्वयेऽपि, अर्थशब्दस्य, भावनिवृत्तिरूप
विरुद्धार्थस्वीकारेऽपि मूलं योजयन् व्याख्याता महान्तमामोदं रसिकानामुत्पादयति ॥