This page has been fully proofread twice.

अपि च ।
 
येनादिश्यत वेधसा जनिमतामद्रोहतो जीवनं
तेनैव त्वयि दुर्धियां दनुभुवामादिष्टमाचार्यकम् ।
अस्मिन् किं करणीयमर्थगहनेऽमीमांसकैर्मादृशैः
शक्तस्त्वं त्वनुवर्तितुं तदपि स्वल्वाकाशवद्वर्तितुम् ॥ १४ ॥
 
[commentary]
 
इतः ल्यब्लोपे पञ्चमी । एतद्विहायेत्यर्थः । यत् यदंशः व्याहर्तव्यं वक्तव्यः अस्ति वर्तते तत्तदंशः मद्गिरं मम वाचं नापेक्षते नाकाङ्क्षत इत्यर्थः । मदभिधानमन्तरैव बुद्धिवैभवेन वक्तव्यं जानासीति भावः । अथ तमेव चातुर्यातिशयवानित्यभिप्रायेण स्तौति ॥ येनेति ॥ येन वेधसा विधिना अद्रोहतः न द्रोहः अद्रोह इति समासे नञः प्रागभावोऽर्थः 'रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति महाभाष्ये असन्देहपदस्य सन्देहप्रागभावार्थताया निर्णीतत्वात् तत्समासोत्तरपञ्चमीस्थानिकतसिप्रत्ययस्य च लुप्तल्यबन्तनिरूपितकर्मत्वमर्थः । एवं च द्रोहप्रागभावं परिपाल्येति समुदितार्थः । जनिमतां प्राणिनां जीवं प्राणधारणं आदिश्यत निरदिश्यतेत्यर्थः । यथाऽद्रोहेणोत्पद्यते तथैव प्राणिनां जीवनं ब्रह्मणा निर्दिष्टमिति भावः । तेन विधिना त्वयि त्वद्विषये दुर्धियां दुर्बुद्धीनां परद्रोहलोलुपत्वादिति भावः । दनुभुवां दानवानाम् आचार्यकमाचार्यत्वम् आदिष्टं निर्दिष्टम् । द्रोहिधुरन्धरासुरगुरुत्वमेव भवतः । अमीमांसकैः मादृशैः मद्विधैः अर्थगहने भावगर्भिते अस्मिन् किं करणीयं किं वा कर्तव्यमित्यर्थः ।
प्राणिमात्रस्याहिंसया जीवनं निर्दिष्टं अस्माकं तु हिंसाप्रचुरदानवाचार्यत्वं कुतो निर्दिष्टमिति ब्रह्माणं प्रति विचारयितुमशक्यमिति भावः । त्वं तु अनुवर्तितुम् अनुसर्तुम् । उभयविधामाज्ञामिति शेषः । तदपि अनुवृत्तोऽपि आकाशवद्वर्तितुं स्थातुं शक्तः। यथाऽऽकाशः तत्र तत्र विद्यमानोऽपि तत्तत्कृतलेपरहितः, तथा त्वमपि तेषां आचार्यतया विद्यमानोऽपि तत्तत्कृतद्रोहादिसम्बन्धरहित इति भावः । यद्वा येन जनिमतां उत्पत्तिशालिनां अद्रोहतः । 'पञ्चम्यास्तसिल् (५.३.७) । द्रोहमन्तरेति भावः । जीवनम् आयुः परिमितकालवर्तनमित्यर्थः । अथवा अद्रोहतः 'इतराभ्योऽपि दृश्यन्ते' (५.३.१४) इति प्रथमायास्तसिः । क्रियाविशेषणमेतत् । तथाच अद्रोहं यथा तथा वर्तनमित्यर्थः । एवं चेतरेषां द्रोहो यथा न भवति तथा शरीरभरणं कर्तव्यमिति