2023-06-05 16:40:15 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
अपि च ।
येनादिश्यत वेधसा जनिमतामद्रोहतो जीवनं
तेनैव त्वयि दुधिंयां दनुभुवामादिष्टमाचार्यकम् ।
अस्मिन् किं करणीयमर्थगहनेऽमीमांसकैर्मादृशैः
शक्तस्त्वं त्वनुवर्तितुं तदपि स्वल्वाकाशवद्वतिंतुम् ॥ १४ ॥
इत: लयब्कोपे पञ्चमी । एतद्विहायेत्यर्थः । यत् यदंशः व्याहर्तव्यं वक्तव्यः अस्ति
वर्तते तत्तदंशः मगिरं मम वाचं नापेक्षते नाकाङ्क्षत इत्यर्थः । मदभिधान-
मन्तरैव बुद्धिवैभवेन वक्तव्यं जानासीति भावः । अथ तमेव चातुर्यातिशय -
वानित्यभिप्रायेण स्तौति ॥ येनेति ॥ येन वेधसा विधिना अद्रोहतः न द्रोहः
अद्रोह इति समासे नञः प्रागभावोऽर्थः 'रक्षोहागमलध्वसन्देहाः प्रयोजनम्'
इति महाभाष्ये असन्देहपदस्य सन्देहप्रागभावार्थताया निर्णीतत्वात् तत्समा-
सोत्तरपञ्चमीस्थानिकतसिप्रत्ययस्य च लुप्तल्यबन्तनिरूपितकर्मत्वमर्थः । एवं च
द्रोहप्रागभाव परिपाल्येति समुदितार्थ: । जनिमतां प्राणिनां जीवं प्राणधारण
आदिश्यत निरदिश्यतेत्यर्थः । यथाऽद्रोहेणोत्पद्यते तथैव प्राणिनां जीवनं
ब्रह्मणा निर्दिष्टमिति भावः । तेन विधिना त्वयि त्वद्विषये दुर्घियां दुर्बुद्धीनां
परद्रोहलोलुपत्वादिति भावः । दनुभुवां दानवानाम् आचार्यकमाचार्यत्वम्
आदिष्ट निर्दिष्टम् । द्रोहिधुरन्धरासुरगुरुत्वमेव भवतः । अमीमांसकैः मादृशैः
मद्विघैः अर्थगहने भावगर्भिते अस्मिन् किं करणीयं किं वा कर्तव्यमित्यर्थः ।
प्राणिमात्रस्याहिंसया जीवनं निर्दिष्टं अस्माकं तु हिंसाप्रचुरदानवाचार्यत्वं कुतो
निर्दिष्टमिति ब्रह्माणं प्रति विचारयितुमशक्यमिति भावः । त्वं तु अनुवर्तितुम्
अनुसर्तुम् । उभयविधामाज्ञामिति शेषः । तदपि अनुवृत्तोऽपि आकाशवद्वर्तितुं स्थातुं
शक्तः। यथाऽऽकाशः तत्र तत्र विद्यमानोऽपि तत्तत्कृतलेपरहितः, तथा त्वमपि तेषां
आचार्यतया विद्यमानोऽपि तत्तत्कृतद्रोहादिसम्बन्धरहित इति भावः । यद्वा येन
जनिमतां उत्पत्तिशालिनां अद्रोहतः । 'पञ्चम्यास्तसिल ) ( 5-3-7 ) । द्रोहमन्तरेति
भावः। जीवनम् आयुः परिमितकालवर्तनमित्यर्थः । अथवा अद्रोहत: 'इतराभ्योऽपि
दृश्यन्ते' (5-3-14) इति प्रथमायास्तसिः । क्रियाविशेषणमेतत् । तथाच अद्रोहं यथा
तथा वर्तनमित्यर्थः । एवं चेतरेषां द्रोहो यथा न भवति तथा शरीरभरणं कर्तव्यमिति
।