2023-06-05 16:38:52 by ambuda-bot
This page has not been fully proofread.
zi
इति समीचीनवस्तुलाभाय विवदमाना: पारेसहस्रं देवाः सन्ति,
इति प्रतिपाद्य,
"निष्क्रान्ते गरळे द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भैष्टेति गिराssविरास धुरि यो देवस्तमेव स्तुम:"
इति प्रकृतग्रन्थकरणमुख्योद्देश्यभूतं शिवप्रकर्षभूयस्त्वं कविनैव स्पष्टं प्रति-
पादितम् । तदनुगुणमेव भारतपुराणाद्यपेक्षया देवीभागवतमेव कथाश्रयत्वेन
कविना स्वीकृतम् । स्पष्टमिदं तत्र तत्र प्रकरणे देवीभागवतश्लोकानुदाहरता
व्याख्यात्रा प्रदर्शितम् । शिवपारम्यकथनावसरे देवतान्तराणां शिवाधीनत्वम्,
तत्रापि शिवयोर्विशिष्य सर्वनियन्तृत्वम् इत्यादि कविना तत्र तत्रोपन्यस्तम् ।
कविरयं विष्णुमपि यथासम्भव स्तौति ।
'किं तन्त्रैः ? किं मन्त्रैः? किं व्याकरणेन? किं पुराणेनः ।
चरणाम्बुजे निमग्ना धिषणा यदि पद्मनाभस्य ॥"
इत्यादयः श्लोका अनुसन्धेया अत्र । देवतैक्यवाद्यप्ययं 'तथापि भक्तिस्त-
रुणेन्दुशेखरे' इतिरीत्या ईश्वरभक्तः । गौडवैदर्भपाञ्चालादिरीतयः कवेरस्य
वश्या इति तत्र तत्र तासां यथासम्भव सङ्घटनात् सुदर्शम् । नैकविधानि
वृत्तानि ग्रन्थेऽलाहतानि । विशिष्यान्यैरनुपयुक्तान्यपि आयोजितानि ।
यथा
66
निष्पत द्रुममुत्पतत्खगम् अद्भुतस्खलदश्मभू-
जर्झरस्रुत निर्झराम्बुझळझळारवभैरवम् ।
गर्भगह्वरनिर्भरभ्रमदुद्भटानिलपूरित-
क्रन्ददन्तरकन्दरं किल मन्दरं ददृशुर्जनाः ॥"
"
इत्यत्र पदानां सौभ्रात्र, सुसन्धिः प्रासः अर्थव्यक्तिः, कमनीयता
इत्यादीनि सहृदयैरास्वादनीयानि ।
पद्यगन्धि, उत्कलिकारूपम्, चूर्णम् इति त्रिविधेषु गद्येषु कविरयं
प्रायः सर्वविधान्यपि उपयुक्तवान् । 'शैलादिकृतनिषेवण –' इत्यारभ्य तुरीया-
श्वासे कृतं गद्यम्, ईश्वरविषयकसकलपौराणिक कथासारभूतं ललितं नित्यानु-
सन्धानाई कवेरनितरसाधारणशैलीप्रकाशकं शिवभक्तानां सर्वस्वभूतं विराजते ।