This page has been fully proofread twice.

'आवेदनीयं किमखिलवेदिषु भवादृशेषु । तथा हि ।
 
जानीषे जगदेव तावदखिलं स्वप्नेन्द्रजालोपमं
जानीषे ह्यधिकारदुर्विलसितं संसारमप्यावयोः ।
जानीषे भगवत्परिग्रहपरीणाहं सुपर्वस्वपि
व्याहर्तव्यमितोऽस्ति यत्तदपि ते नापेक्षते मद्गिरम् ॥१३॥
 
[commentary]
 
पूतविजनौ' इत्यमरः । कविना शुक्रेण । 'उशना भार्गवः कविः' इत्यमरः । पृष्टः अनुयुक्तस्सन् उपपत्तिः युक्ति गर्भे कुक्षौ यस्यां सा तया, युक्तिसहितयेति यावत् । गिरा वाचा इदं बुद्धिस्थं आगमनकारणं समागमननिमित्तं उदाजहार प्रोवाचेत्यर्थः । यद्वा ज्ञापयामासेत्यर्थः। उदाङित्युपसर्गद्वयपूर्वस्य हृधातोरुपोद्घातार्थतायाः 'उपोद्धात उदाहारः' इत्यमरेणाभिधानात् ॥ आवेदनीयमिति ॥ भवादृशेषु युष्मत्सदृशेषु अखिलं वेत्तुं शीलं येषां तेऽखिलवेदिनः तेषु । आवेदनीयं बोधनीयं किं, न किमपीत्यर्थः । भवादृशामाकारेण परेङ्गितज्ञानादिति भावः । ममाखिलवेदित्वं कथमिति चेदत आह ॥ जानीष इति ॥ अखिलं समस्तं जगद्भुवनमेव स्वप्नश्च इन्द्रजालञ्च ते उभे उपमे उपमाने यस्य तत्तथाभूतं जानीषे तावद्वेत्सि खल्वित्यर्थः । जगतो मिथ्यात्वात्तत्साम्यमिति भावः । अत एव, "यथा स्वप्नप्रपञ्चोऽयं मयि मायाविनिर्मितः । तथा जाग्रत्प्रपञ्चोऽयं मयि मायाविनिर्मितः ॥'' 'आलोकयन्तं जगदिन्द्रजालम्' इति च श्रुतिः । आवयोः मम तव चेत्युभयोः अधिकारः शत्रुक्षेत्रोच्चस्थाननीचस्थानप्राप्तिवशात् प्राणिनां
शुभाशुभान्यतरफलप्रदानसुरासुरमन्त्रालोचनतत्तत्पौरोहित्यकरणरूपोऽधिकारः[^१] तस्य दुर्विलसितम् । भावे क्तः । दुर्विलासरूपं संसारं संसृतिमपि स्वप्नेन्द्रजालोपमं जानीषे जानासि खलु । संसारस्य स्वप्नसाम्यं वासिष्ठरामायणेऽप्युक्तम् 'दीर्घस्वप्नमिमं विद्धि संसारं राघव स्वयम्' इति । सुपर्वसु देवेष्वपि भगवतः वासुदेवस्य परिग्रहः स्वीकारस्तस्य परीणाहः बन्धनमाधिक्यं वेत्यर्थः ।
'परीणाहो विशालता' इत्यमरः । तमपि जानीषे जानासि ।
 
[^१] गुरुशुक्रयोः न केवलं सुरदानवमन्त्रालोचनेऽधिकारः, अपि तु प्राणिनां शत्रुक्षेत्रोच्चनीचस्थानप्राप्तिवशात् शुभाशुभान्यतरफलप्रदानाधिकारोऽपि ज्योतिषग्रन्थप्रसिद्धः मनुजैरनुभूयते ॥ जगन्मिथ्यात्वं सम्यक् विवृतमत्र ॥