2023-08-05 09:14:24 by Bharadwajraki
This page has not been fully proofread.
अपि च ।
निष्ठामाश्रमधर्मपालनविधौ नित्याभियोगं शिवे
शक्तिं कर्तुमकर्तुमन्यथयितुं तन्त्रेषु राज्ञामपि ।
श्रावंश्रावमनुक्षणोपचितया प्रीत्याहमस्म्यागतो
यत्सत्यं भवदीक्षणाय हृदये तत्रावयोस्साक्षिणी’ ॥ १२॥
इत्यभिदधानो गुरुरलमतिवात्सल्यादतिलालनेनेत्यभिधाय विसृज्य सामाजिकान्, विविक्ते पृष्टः कविना समागमनकारणमुदाजहारैनमुपपत्तिगर्भया गिरा ।
[commentary]
भवद्गुणान् श्रुत्वा द्रष्टुमागत इत्याह । अपि चेति ॥ आश्रमः गार्हस्थ्यं तस्य उचिता ये धर्माः अग्निहोत्रादयः तेषां पालनं परिरक्षणं तदेव विधिः व्यापारः तस्मिन् निष्ठाम् पराकाष्ठाम् अथवा, निष्ठां निर्वहणमित्यर्थः । 'निष्ठानिर्वहणे समे ।’ 'निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि' इति च अमरः । शिवे परमेश्वरे विषये नित्यमनवरतमभियोगोऽभिध्यानम् । 'योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । राज्ञां भूपानां तन्त्रेषु इतिकर्तव्यतास्वपि विषये । 'तन्त्रं कुटुम्बे कार्ये स्यात् सिद्धान्ते चोत्तमौषधे । प्रधाने तन्तुवाये च शास्त्रभेदे परिच्छदे ।
श्रुतिशाखान्तरे सेतौ उभयार्थप्रयोजने । इतिकर्तव्यतायां च' इति हेमचन्द्रः । कर्तुं निर्वोढुम् अकर्तुं ताटस्थ्येन तूष्णीं वर्तितुम् अन्यथयितुं स्वेच्छया प्रकारान्तरमनुसर्तुं च शक्ति सामर्थ्यम् । 'कासूसामर्थ्ययोश्शक्तिः' इत्यमरः । श्रावं श्रावं ।
आभीक्ष्ण्ये णमुल् । श्रुत्वा श्रुत्वेत्यर्थः । अनुक्षणं प्रतिक्षणं उपचितया अभिवृद्धया
प्रीत्या प्रेम्णा भवत ईक्षणाय दर्शन,य आगतः आयातः अस्मि । यद्यदंशः सत्यं
प्रामाणिकः तत्र तदंशे आवयोः मम तव चेत्युभयोर्हृदये मनसी साक्षिणी द्रष्टृणी ।
'साक्षाद् द्रष्टरि संज्ञायाम्' (5-2-91) इतीनिः ॥ इतीति । इति इत्थं अभिदधानः
आभाषमाणः गुरु: बृहस्पति: । 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अतिवात्सल्यात्
अतिप्रेमवशात् अतिलालनेन अतिश्लाघनेन । प्रोत्साहनेनेति वाऽर्थः । अलं इती-
त्थमभिधाय उक्त्वा सामाजिकान् सभास्तारान् । 'सभासदस्सभास्तारास्सभ्यास्सा-
माजिकाश्च ते' इत्यमरः । विसृज्य बहिः प्रेषयित्वेत्यर्थः । यद्वा विसृज्य विहाये-
त्यर्थः । तेन सह स्वयमन्यत्र गत्वेति भावः । विविक्ते विजनदेशे । 'विविक्तौ