This page has been fully proofread twice.

आसादितमनायासेन मया स्वयमागमनं भगवतोऽधुना' इत्युदाहरति भार्गवे पुनरिदमुवाच वाचस्पतिः ।
 
'पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च
ख्यातौ कुले शमवतां ननु पद्मयोनेः ।
तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्नः
चित्रीयते किमिह सोदरसंप्रयोगे ॥ ११ ॥
 
[commentary]
 
तैरनुल्लिखितम् अनुत्प्रेक्षितम्, अविषयीकृतमिति यावत् । तपोभिः कृच्छ्रचान्द्रायणादिभिरप्यनवाप्यमवाप्तुमशक्यं, गृहान् दारान् मेधन्ते सङ्गच्छन्ते इति गृहमेधिनः ।
'मेधृ सङ्गमे' इति धातोरच्प्रत्ययः तत इनिप्रत्ययः । अधुना तेषां गृहस्थानामिति यावत्। आशासनीयम् अपेक्षणीयम् । आङ्पूर्वाच्छासेरिच्छार्थकात् 'तव्यत्तव्यानीयरः' (३.१.९६) इत्यनीयर्प्रत्ययः । सोऽप्यर्थः एवंविधमपि भगवतः स्वयमागमनं मया अनायासेन अप्रयत्नेन। 'यसु प्रयत्ने' इति धातोर्घञ्प्रत्ययः । आसादितं सम्पादितम् तत्कारणात् भृगोर्महर्षेः अयमन्वयः कुलम् । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । अद्य इदानीं प्रतिष्ठा बहुमानोऽस्य सञ्जाता इति प्रतिष्ठितः । 'तदस्य सञ्जातं तारकादिभ्य इतच्' (५.२.३६) इति इतच्प्रत्ययः । अथवा [^१]प्रतिष्ठितः । कर्मणि क्तः । इति इत्थं भार्गवे शुक्रे उदाहरति अभिवदति सति वाचस्पतिः गुरुः पुनरिदं वचनं उवाच उक्तवानित्यर्थः । अथ वचनप्रकारमाह ॥ पुत्रेति ॥ यस्मिन् पद्मयोनेः ब्रह्मणः कुले अन्वये गृहे वा प्रथमजौ प्रथमोत्पन्नौ भृगुरङ्गिराश्चेत्युभौ पुत्रौ शमवतां शमशालिनां मुनीनां मध्य इत्यर्थः । ख्यातौ प्रसिद्धौ भार्गवस्य तत्कुलं तमन्वयं तद्गृहमिति aआपन्नः गतः आङ्गिरसः जीवः, उभयोरेकवंश्यत्वमिति भावः । इहेदानीं सोदरस्य भ्रातुर्मम संप्रयोगे तद्गृहमिति संप्राप्तिविषये किं
चित्रीयते किमर्थं विस्मयः क्रियते । भ्रात्रोः परस्परागमनं नाश्चर्यायेति भावः ।
 
[^१] एक एव प्रतिष्ठितशब्दः तद्धितान्तः कृदन्तो वा घटते ॥ सुबन्तप्रकृतिकत्वे तद्धितान्तता, धातुप्रकृतिकत्वे कृदन्तता इति विवेकः ॥
 
a. 'प्रपन्नः' इति मूलपाठः ।