This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
आसादित मनायासेन मया स्वयमागमनं भगवतोऽधुना' इत्युदाहरति
भार्गवे पुनरिदमुवाच वाचस्पतिः ।
 

 
'पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च
 

ख्यातौ कुले शमवतां ननु पद्मयोनेः ।

तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्नः
 

चित्रीयते किमिह सोदरसंप्रयोगे ॥ ११ ॥
 

 
[commentary]
 
तैरनुल्लिखितम् अनुत्प्रेक्षितम्, अविषयीकृतमिति यावत् । तपोभिः कृच्छ्रचान्द्रायणा-
दिभिरप्यनवाप्यमवाप्तुमशक्यं, गृहान् दारान् मेधन्ते सङ्गच्छन्ते इति गृहमेधिनः

'मेधृ सङ्गमे' इति धातोरच॒च्प्रत्ययः तत इनिप्रत्ययः । अधुना तेषां गृहस्थानामिति
यावत्। आशासनीयम् अपेक्षणीयम् । आडूङ्पूर्वाच्छासेरिच्छार्थकात् 'तव्यत्तव्या-
नीयरः' (3-1-96३.१.९६) इत्यनीयर्प्रत्ययः । सोऽप्यर्थः एवंविधमपि भगवतः स्वयमागमनं
मया अनायासेन अप्रयत्नेन। 'यसु प्रयलेत्ने' इति धातोर्घञ्प्रत्ययः । आसादितं सम्पा-
दितम् तत्कारणात् भृगोर्महर्षेः अयमन्वयः कुलम् । 'सन्ततिर्गोत्रजननकुलान्यभिज-
नान्वयौ' इत्यमरः । अद्य इदानीं प्रतिष्ठा बहुमानोऽस्य सञ्जाता इति प्रतिष्ठितः ।
'तदस्य सञ्जातं तारकादिभ्य इतच्' (5-2-36 ५.२.३६) इति इतच्प्रत्ययः । अथवा 'प्रति-
[^१]प्रतिष्ठितः । कर्मणि क्तः । इति इत्थं भार्गवे शुक्रे उदाहरति अभिवदति सति वाचस्पतिः
गुरु:रुः पुनरिदं वचनं उवाच उक्तवानित्यर्थः । अथ वचनप्रकारमाह ॥ पुत्रेति ॥
यस्मिन् पद्मयोनेः ब्रह्मणः कुले अन्वये गृहे वा प्रथमजौ प्रथमोत्पन्नौ भृगुरङ्गिरा-
श्वेचेत्युभौ पुत्रौ शमवतां शमशालिनां मुनीनां मध्य इत्यर्थः । ख्यातौ प्रसिद्धौ भार्गवस्य
तत्कुलं तमन्वयं तद्गृहमिति aआपन्न:नः गतः आङ्गिरसः जीवः, उभयोरेकवंश्यत्वमिति
भावः । इहेदानीं सोदरस्य भ्रातुर्मम संप्रयोगे तद्गृहमिति संप्राप्तिविषये किं

चित्रीयते किमर्थं विस्मयः क्रियते । भ्रात्रोः परस्परागमनं नाश्चर्यायेति भावः ।
 
1.

 
[^१]
एक एव प्रतिष्ठित शब्दः तद्धितान्तः कृदन्तो वा घटते ॥ सुबन्तप्रकृति-
कत्वे तद्धितान्तता, धातुप्रकृतिकत्वे कृदन्तता इति विवेकः ॥
 

 
a.
 
'प्रपन्नः' इति मूलपाठः ।