2023-06-05 16:40:13 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
आसादित मनायासेन मया स्वयमागमनं भगवतोऽधुना' इत्युदाहरति
भार्गवे पुनरिदमुवाच वाचस्पतिः ।
'पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च
ख्यातौ कुले शमवतां ननु पद्मयोनेः ।
तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्नः
चित्रीयते किमिह सोदरसंप्रयोगे ॥ ११ ॥
तैरनुल्लिखितम् अनुत्प्रेक्षितम्, अविषयीकृतमिति यावत् । तपोभिः कृच्छ्रचान्द्रायणा-
दिभिरप्यनवाप्यमवाप्तुमशक्यं, गृहान् दारान् मेधन्ते सङ्गच्छन्ते इति गृहमेधिनः।
'मेधृ सङ्गमे' इति धातोरच॒प्रत्ययः तत इनिप्रत्ययः । अधुना तेषां गृहस्थानामिति
यावत्। आशासनीयम् अपेक्षणीयम् । आडूपूर्वाच्छासेरिच्छार्थकात् 'तव्यत्तव्या-
नीयरः' (3-1-96) इत्यनीयप्रत्ययः । सोऽप्यर्थः एवंविधमपि भगवतः स्वयमागमनं
मया अनायासेन अप्रयत्नेन। 'यसु प्रयले' इति धातोर्घञ्प्रत्ययः । आसादितं सम्पा-
दितम् तत्कारणात् भृगोर्महर्षेः अयमन्वयः कुलम् । 'सन्ततिर्गोल जननकुलान्यभिज-
नान्वयौ' इत्यमरः । अद्य इदानीं प्रतिष्ठा बहुमानोऽस्य सञ्जाता इति प्रतिष्ठितः ।
'तदस्य सञ्जातं तारकादिभ्य इतच्' (5-2-36 ) इति इतच्प्रत्ययः । अथवा 'प्रति-
ष्ठितः। कर्मणि क्तः । इति इत्थं भार्गवे शुक्रे उदाहरति अभिवदति सति वाचस्पतिः
गुरु: पुनरिदं वचनं उवाच उक्तवानित्यर्थः । अथ वचनप्रकारमाह ॥ पुत्रेति ॥
यस्मिन् पद्मयोनेः ब्रह्मणः कुले अन्वये गृहे वा प्रथमजौ प्रथमोत्पन्नौ भृगुरङ्गिरा-
श्वेत्युभौ पुत्रौ शमवतां शमशालिनां मुनीनां मध्य इत्यर्थः । ख्यातौ प्रसिद्धौ भार्गवस्य
तत्कुलं तमन्वयं तद्गृहमिति आपन्न: गतः आङ्गिरसः जीवः, उभयोरेकवंश्यत्वमिति
भावः । इहेदानीं सोदरस्य भ्रातुर्मम संप्रयोगे तद्गृहमिति संप्राप्तिविषये किं
चित्रीयते किमर्थं विस्मयः क्रियते । भ्रात्रोः परस्परागमनं नाश्चर्यायेति भावः ।
1. एक एव प्रतिष्ठित शब्दः तद्धितान्तः कृदन्तो वा घटते ॥ सुबन्तप्रकृति-
कत्वे तद्धितान्तता, धातुप्रकृतिकत्वे कृदन्तता इति विवेकः ॥
a.
'प्रपन्नः' इति मूलपाठः ।