This page has been fully proofread twice.

'अद्य मे सफलं जीवितम्, अद्य हुतं विधिवदग्निषु, अद्य दत्तमतिथिष्वभ्यागतेषु, अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरवः, अद्य फलिनो गृहाश्रमाः । किं बहुना । अद्यायमन्वयः प्रतिष्ठितो भृगोः
यदनुल्लिखितं मनोरथैरनवाप्यं तपोभिरपि, आशासनीयं गृहमेधिनाम्,
 
[commentary]
 
वनीयादिषु विधिवत् यथाशास्त्रं हुतं होमः कृतः । 'यस्याग्निहोत्रमदर्शपूर्णमासमनाग्रयणमतिथिवर्जितं चाहुतमवैश्वदेवमविधिना हुतमासप्तमात् तस्य लोकान्हिनस्ति' इति श्रुत्या भवादृशातिथिपूजयैव[^१] अग्निहोत्रादेर्विधिवदनुष्ठितत्वसंभवादिति भावः । अतिथयः वैश्वदेवात्पूर्व गृहमागताः । 'स्यादावेशिक आगन्तुरतिथिर्ना गृहागतः' इत्यमरः । तेषु अभ्यागताः वैश्वदेवकाले समागताः । तथाचोक्तम् --
'अभ्यागतः स विज्ञेयो वैश्वदेवे य आगतः' इति । तेषु च अद्य इदानीं दत्तं प्रतिपादितं सदा अतिथ्यभ्यागतपूजाकरणमहिम्नैव कदाचिदद्य भवादृशस्य अप्राकृतस्य लाभात्तदपि सार्थकमभूदिति भावः । सरहस्याः गोप्यार्थसहिताः अथवा, रहस्यं नाम सामगानां वेदविभागः, तत्सहिता इत्यर्थः । तथाभूतेषु आगमाः शास्त्राणि । 'आगमस्त्वागते शास्त्रे विद्रुमे द्रुप्रवाळयोः' इति नानार्थमाला । तेषु अद्य इदानीं अधीतम् अध्ययनं कृतम् । 'कृतं कर्तव्यमखिलं वेद्यं तु विदितं तदा । यदा सम्पूजितो ब्रह्मा भगवान् ब्रह्मवित्तमः' ॥ इति वचनादिति भावः । गुरवः पित्राद्याः, 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अद्य इदानीं आराधिताः सन्तोषिताः । 'नृत्यन्ति पितरस्सर्वे गायन्ति प्रपितामहाः । पितामहाश्च गायन्ति श्रोत्रिये गृहमागते' ॥ इति शास्त्रादिति भावः । अद्येदानीं गृहाश्चाश्रमाश्चेति
द्वन्द्वः । तथाच भवत्पादधूळिलाभादस्माकं गृहा फलिनः फलवन्तः । 'यन्मनीषिपदाम्भोजरजःकणपवित्रितम् । तदेव भवनं नोचेद्भकारस्तत्र लुप्यते' ॥ इति शास्त्रादिति भावः । तथा अस्मदाश्रमाः भगवत्पूजालाभात् । 'न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ इति शास्त्रादिति भावः । फलिनो बभूवुरिति भावः ॥ अद्येति ॥ यत् यतः मनोरथाः इच्छाः । 'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' । इत्यमरः ।
 
[^१] अत एव गुरोरनुशासने - 'मातृ देवो भव' इत्यादौ मातृपित्राचार्येभ्यः श्रेष्ठतया "अतिथिदेवो भव" -- इत्यन्तेऽनुशासनं घटते । गृहमेधिनः अतिथिसत्कार एव परमो धर्मः, विना तं अन्यत्सर्व निष्फलं, गायत्रीजपं विनेतरत् श्राद्धपूजादिकमिवेतिभावः ॥