2023-06-05 16:40:14 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सभ्याख्याने
'अद्य मे सफलं जीवितम्, अद्य हुतं विधिवदग्निषु, अद्य दत्तम-
तिथिष्वभ्यागतेषु, अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरव,
अद्य फलिनो गृहाश्रमाः । किं बहुना । अद्यायमन्वयः प्रतिष्ठितो भृगोः
यदनुल्लिखितं मनोरथैरनवाप्यं तपोभिरपि, आशासनीयं गृहमेधिनाम्,
वनीयादिषु विधिवत् यथाशास्त्रं हुतं होमः कृतः । 'यस्याग्निहोत्रमदर्शपूर्णमा-
समनाग्रयणमतिथिवर्जित चाहुतमवैश्वदेवमविधिना हुतमासप्तमात् तस्य लोकान्
हिनस्ति' इति श्रुत्या भवादृशातिथिपूजयैव' अग्निहोत्रादेर्विधिवदनुष्ठितत्वसंभ-
वादिति भावः । अतिथयः वैश्वदेवात्पूर्व गृहमागताः । 'स्यादावेशिक आग-
न्तुर तिथिर्ना गृहागतः' इत्यमरः । तेषु अभ्यागताः वैश्वदेवकाले समागताः ।
तथाचोक्तम्-'अभ्यागतः स विज्ञेयो वैश्वदेवे य आगतः' इति । तेषु च अद्य इदानीं
दत्तं प्रतिपादितं सदा अतिथ्यभ्यागतपूजाकरणमहिम्नैव कदाचिदद्य भवादृशस्य
अप्राकृतस्य लाभात्तदपि सार्थकमभूदिति भावः । सरहस्याः गोप्यार्थसहिताः
अथवा, रहस्यं नाम सामगानां वेदविभागः, तत्सहिता इत्यर्थः । तथाभूतेषु
आगमाः शास्त्राणि । 'आगमस्त्वागते शास्त्रे विद्रुमे द्रुप्रवाळयोः' इति नानार्थ-
माला । तेषु अद्य इदानीं अधीतम् अध्ययनं कृतम् । 'कृतं कर्तव्यमखिलं वेद्यं तु
विदितं तदा । यदा सम्पूजितो ब्रह्मा भगवान् ब्रह्मवित्तमः' ॥ इति वचनादिति
भावः । गुरवः पित्राद्याः, 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अद्य इदानीं आराधिताः
सन्तोषिताः । 'नृत्यन्ति पितरस्सर्वे गायन्ति प्रपितामहाः । पितामहाश्च गाय-
न्ति श्रोत्रिये गृहमागते' ॥ इति शास्त्रादिति भावः । अद्येदानीं गृहाश्चाश्रमाश्चेति
द्वन्द्वः । तथाच भवत्पादधूळिलाभादस्माकं गृहा: फलिनः फलवन्त: । 'यन्मनी-
षिपदाम्भोजरजःकणपवित्रितम् । तदेव भवनं नोचेद्भकारस्तत्र लुप्यते' ॥ इति
शास्त्रादिति भावः । तथा अस्मदाश्रमाः भगवत्पूजालाभात् । 'न ह्यम्मयानि
तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्युरुकालेन दर्शनादेव साधवः ॥ इति
शास्त्रादिति भावः । फलिनो बभूवुरिति भावः ॥ अद्येति ॥ यत् यतः मनोरथाः
इच्छाः। 'इच्छा काडूक्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' । इत्यमरः ।
1. अत एव गुरोरनुशासने- 'मातृ देवो भव' इत्यादौ मातृपित्राचार्येभ्यः श्रेष्ठतया
"अतिथिदेवो भव"–इत्यन्तेऽनुशासनं घटते । गृहमेधिन: अतिथिसत्कार एव परमो धर्मः,
बिनातं अन्यत्सर्व निष्फलं, गायत्रीजपं विनेतरत् श्राद्धपूजादिकमिवेतिभावः ॥