2023-09-14 02:07:00 by Bharadwajraki
This page has been fully proofread twice.
असावत्यर्घो नस्सुकृतमुपचेतुं सुमहदि-
त्यवसन् प्राप प्रागसुरगुरुमाखण्डलगुरुः ॥ १० ॥
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैरभ्यर्च्य विधिवदर्घ्यादिभिस्सपर्याभिरासयन् महति मणिविष्टरे भार्गवः, स्वयमासीनस्तदनुज्ञया सविनयमिदमाचचक्षे ।
[commentary]
प्रेरकवासुदेवाज्ञया सन्धेरवश्यम्भावित्वेन मम निमित्तमात्रत्वेनापि यशस्सम्पत्तिरिति भावः । नोऽस्माकं महदुत्कृष्टं सुकृतं पुण्यम् उपचेतुं सम्पादयितुम् अयं कालः अतिक्रान्तः अर्घं मूल्यं अत्यर्घः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः । मत्प्रयत्नरूपमूल्यमतिक्रम्य यशोरूपमहापदार्थलाभो भवतीति भावः । इति व्यवस्यन्, निश्चिन्वन्, प्राक् प्रथमं आखण्डलस्येन्द्रस्य गुरुः असुराणां गुरुं शुक्राचार्यं प्राप प्राप्तवान् । तद्द्वारैव सर्वं कार्यं साधनीयमिति मत्वेति भावः । अथ प्राप्तं सुराचार्यं प्रत्युत्थानादिभिः सभाजयित्वा तदागमनं
प्रशशंसेत्याह वाक्यत्रयेण ॥ तत इति ॥ तत आगमनानन्तरं भार्गवः शुक्रः अतर्कितः अचिन्तितः स चासौ उपनतः प्राप्तश्चेति स्नातानुलिप्तवत्समासः । यद्वा, अतर्कितम् अचिन्तितम्, उपनतम् उपनतिर्यस्य स तथाभूतं तं गुरुं शिष्यैस्सह अभिगम्य प्रत्युत्थानप्रत्युद्गमनादिभिः संमान्येत्यर्थः । विधिवदर्घं पूजां अर्हतीत्यर्घ्यं पूजोपयोगिद्रव्याणि । 'पादार्घाभ्यां च (५.४,२५) इति यत्प्रत्ययः । त एव आदयो यासां ताभिः । 'षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि’ इत्यमरः । सपर्याः पूजाः । 'पूजा नमस्यापचितिस्सपर्याऽर्चाऽर्हणास्समाः इत्यमरः । ताभिरभ्यर्च्य अभिपूज्य सेवित्वेति तात्पर्यार्थः । मह्त्युत्तमे, विष्टरे पीठे । 'विष्टरो विटपे दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । आसयन् [^१]उपवेशयन् तस्य गुरोरनुज्ञया आदेशेन स्वयं शुक्रः आसीनः उपविशन् सन् सविनयं विनयः नम्रता तेन सह वर्तनं यथा तथा इदं वचनं आचचक्षे जगाद । अद्येति ॥ अद्य इदानीं मे मम जीवितं प्राणधारणं सफलं फलवत् भवदागमजनितपरमानन्दलाभादिति भावः । यद्वा, अन्यथा
भवदागमनजनित आनन्द एव न स्यादिति भावः । अद्य इदानीं अग्निषु आह-
[^१] शुक्राचार्यसुराचार्यसंगमेन, तयोः मिथः यथावदुपचारेण स्निग्धया वाचा चेदं ज्ञायते-यत्-द्वेष्योऽप्यतिथिः सुहृद्भावनीयः, अर्चनीयः, वाङ्माधुर्यं दातव्यम्, अतिथिसत्कार एव सर्वधर्माणां मूलभूतः इति ॥