This page has been fully proofread once and needs a second look.

तृतीयांश्वासः
 
असावत्यर्धोघो नस्सुकृतमुपचेतुं सुमहदि -
 
त्यवस्थ

त्यवस
न् प्राप प्रागसुरगुरुमाखण्डलगुरुः ॥ १० ॥

 
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैरभ्यर्च्य विधिवद -
र्ध्
र्घ्यादिभिस्सपर्याभिरासयन् महति मणिविष्टरे भार्गवः, स्वयमासीन-
स्तदनुज्ञया सविनयमिदमाचचक्षे ।
 

 
[commentary]
 
प्रेरकवासुदेवाज्ञया सन्धेरवश्यम्भावित्वेन मम निमित्तमात्रत्वेनापि यशस्सम्पत्तिरिति
भावः । नोऽस्माकं महदुत्कृष्टं सुकृतं पुण्यम् उपचेतुं सम्पादयितुम् अयं कालः
अतिक्रान्तः अर्घं मूल्यं अत्यर्ष:घः । 'मूल्ये पूजाविधावर्षःघः' इत्यमरः । 'अत्यादयः
क्रान्ताद्यर्थे द्वितीयया' इति समासः । मत्प्रयत्नरूपमूल्यमतिक्रम्य यशोरूप महापदार्थलाभो
भवतीति भावः । इति व्यवस्न्, निश्चिन्वन्, प्राक् प्रथमं आखण्डलस्येन्द्रस्य गुरुः
असुराणां गुरुं शुक्राचार्यं प्राप प्राप्तवान् । तद्द्वारैव सर्वं कार्यं साधनीयमिति
मत्वेति भावः । अथ प्राप्तं सुराचार्यं प्रत्युत्थानादिभिः सभाजयित्वा तदागमनं

प्रशशंसेत्याह वाक्यत्रयेण ॥ तत इति ॥ तत आगमनानन्तरं भार्गवः शुक्रः
अतर्कितः अचिन्तितः स चासौ उपनतः प्राप्तश्चेति स्नातानुलिप्तवत्समासः । यद्वा,
अतर्कितम् अचिन्तितम्, उपनतम् उपनतिर्यस्य स तथाभूतं तं गुरुं शिष्यैस्सह अभिग-
म्य प्रत्युत्थानप्रत्युद्गमनादिभिः संमान्येत्यर्थः । विधिवदर्घं पूजां अर्हतीत्यर्थ्यघ्यं पूजोप-
योगिद्रव्याणि । 'पादार्घाभ्यां च (5-4-25५.४,२५) इति यत्प्रत्ययः । त एव आदयो यासां
ताभिः । 'षट् तु त्रिष्वर्ण्घ्यमर्घार्थे पाद्यं पादाय वारिणि इत्यमरः । सपर्यायाः पूजाः ।
'पूजा नमस्यापचितिस्सपर्याऽर्चाऽर्हणास्समाः इत्यमरः । ताभिरभ्यर्च्य अभिपूज्य
सेवित्वेति तात्पर्यार्थः । मह्त्युत्तमे, विष्टरे पीठे । 'विष्टरो विटपे दर्भमुष्टिः पीठाद्य-
मासनम्' इत्यमरः । आसयन् '[^१]उपवेशयन् तस्य गुरोरनुज्ञया आदेशेन स्वयं शुक्रः
आसीन:नः उपविशन् सन् सविनयं विनय:यः नम्रता तेन सह वर्तनं यथा तथा
इदं वचनं आचचक्षे जगाद । अद्येति ॥ अद्य इदानीं मे मम जीवितं प्राणधा-
रणं सफलं फलवत् भवदागमजनितपरमानन्दलाभादिति भावः । यद्वा, अन्यथा

भवदागमनजनित आनन्द एव न स्यादिति भावः । अद्य इदानीं अभिग्निषु आह-
1.

 
[^१]
शुक्राचार्य सुराचार्य संगमेन, तयोः मिथः यथावदुपचारेण स्निग्धया वाचा चेदं
ज्ञायते-यत्-द्वेष्योऽप्यतिथिः सुहृद्भावनीयः, अर्चनीयः, वाङ्माधुर्यं दातव्यम्, अतिथिस-
स्
त्कार एव सर्वधर्माणां मूलभूतः इति ॥