2023-06-05 16:40:13 by ambuda-bot
This page has not been fully proofread.
तृतीयांश्वासः
असावत्यर्धो नस्सुकृतमुपचेतुं सुमहदि -
त्यवस्थन् प्राप प्रागसुरगुरुमाखण्डलगुरुः ॥ १० ॥
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैरभ्यर्च्य विधिवद -
र्ध्यादिभिस्सपर्याभिरासयन् महति मणिविष्टरे भार्गवः, स्वयमासीन-
स्तदनुज्ञया सविनयमिदमाचचक्षे ।
प्रेरकवासुदेवाज्ञया सन्धेरवश्यम्भावित्वेन मम निमित्तमात्रत्वेनापि यशस्सम्पत्तिरिति
भावः । नोऽस्माकं महदुत्कृष्टं सुकृतं पुण्यम् उपचेतुं सम्पादयितुम् अयं कालः
अतिक्रान्तः अर्ध मूल्यं अत्यर्ष: । 'मूल्ये पूजाविधावर्षः' इत्यमरः । 'अत्यादयः
क्रान्ताद्यर्थे द्वितीयया' इति समासः। मत्प्रयत्नरूपमूल्यमतिक्रम्य यशोरूप महापदार्थलाभो
भवतीति भावः। इति व्यवस्थन्, निश्चिन्वन्, प्राक् प्रथमं आखण्डलस्येन्द्रस्य गुरुः
असुराणां गुरुं शुक्राचार्य प्राप प्राप्तवान् । तद्द्वारैव सर्व कार्य साधनीयमिति
मत्वेति भावः । अथ प्राप्तं सुराचार्य प्रत्युत्थानादिभिः सभाजयित्वा तदागमनं
प्रशशंसेत्याह वाक्यत्रयेण ॥ तत इति ॥ तत आगमनानन्तरं भार्गवः शुक्रः
अतर्कितः अचिन्तितः स चासौ उपनतः प्राप्तश्चेति स्नातानुलिप्तवत्समासः । यद्वा,
अतर्कितम् अचिन्तितम्, उपनतम् उपनतिर्यस्य स तथाभूतं तं गुरुं शिष्यैस्सह अभिग-
म्य प्रत्युत्थानप्रत्युद्गमनादिभिः संमान्येत्यर्थः । विधिवदर्घ पूजां अर्हतीत्यर्थ्य पूजोप-
योगिद्रव्याणि । 'पादार्घाभ्यां च (5-4-25) इति यत्प्रत्ययः । त एव आदयो यासां
ताभिः । 'षट् तु त्रिष्वर्ण्यमर्घार्थे पाद्यं पादाय वारिणि इत्यमरः । सपर्या पूजाः ।
'पूजा नमस्यापचितिस्सपर्याऽर्चाऽर्हणास्समाः इत्यमरः । ताभिरभ्यर्च्य अभिपूज्य
सेवित्वेति तात्पर्यार्थः । मह्त्युत्तमे, विष्टरे पीठे । 'विष्टरो विटपे दर्भमुष्टिः पीठाद्य-
मासनम्' इत्यमरः । आसयन् 'उपवेशयन् तस्य गुरोरनुज्ञया आदेशेन स्वयं शुक्रः
आसीन: उपविशन् सन् सविनयं विनय: नम्रता तेन सह वर्तन यथा तथा
इदं वचनं आचचक्षे जगाद । अद्येति ॥ अद्य इदानीं मे मम जीवित प्राणधा-
रणं सफलं फलवत् भवदागमजनितपरमानन्दलाभादिति भावः । यद्वा, अन्यथा
भवदागमनजनित आनन्द एव न स्यादिति भावः । अद्य इदानीं अभिषु आह-
1. शुक्राचार्य सुराचार्य संगमेन, तयोः मिथः यथावदुपचारेण स्निग्धया वाचा चेदं
ज्ञायते-यत्-द्वेष्योऽप्यतिथिः सुहृद्भावनीयः, अर्चनीयः, वाङ्माधुर्य दातव्यम्, अतिथिस-
स्कारएव सर्वधर्माणां मूलभूतः इति ॥