This page has been fully proofread twice.

शिष्टं यत्र दुष्टं वा न विवेक्तुं क्षमामहे ।
स जानीते 'स जानीते त्वं जानीषे तदन्ततः ॥ ८ ॥'
 
इति ।
 
अनितरशरणत्वमात्मनस्तत् दृढमुपपादयताथ देवभर्त्रा ।
प्रतिहतवचनो गुरुस्सुराणां प्रकटयितुं धियमात्मनः प्रतस्थे ॥ ९ ॥
 
गच्छन्नेव च स पथि सर्वं करणीयमवधारयामास ।
 
अपिच ।
 
अयं कालो बुद्धेरयमवसरश्चाटुवचसां
इयं युक्ता वेला दिशि दिशि यशस्सङ्घटयितुम् ।
 
[commentary]
 
तमाह ॥ शिष्टमिति ॥ अत्र अस्यां वेळायां यच्छिष्टं यदनुष्ठेयं यद्दुष्टम् अननुष्ठेयं तदनुष्ठेयाननुष्ठेयद्वयं विवेक्तुं विभागं कर्तुम् । अथवा, यच्छिष्टं यत्समीचीनं यद्दुष्टमसमीचीनं तत्समीचीनासमीचीनोभयं विवेक्तुं सम्यग्वेत्तुमित्यर्थः । दुष्टशिष्टशब्दौ भावे क्तान्ताविति बोध्यम् । न क्षमामहे समर्था न भवाम इत्यर्थः । तत् शिष्टदुष्टद्वयं कर्म स वासुदेवः जानाति वेत्ति, सः ब्रह्मा जानीते, अन्ततः अन्ते त्वं भवान् जानीषे वेत्सि । वयं तु केवलमाज्ञाहारकाः किमपि न विद्म इति भावः । भगवान् गुरुस्तु विदितभाविकार्यतया तूष्णींम्भूतस्सन् ययावित्याह ॥ अनितरेति । अथ आत्मनः स्वस्य अनितरशरणत्वं रक्षकान्तरराहित्यं दृढमुपपादयता निरूपयता देवानां भर्त्रा स्वामिना इन्द्रेण प्रतिहतं स्तम्भितं वचनं यस्य सः तथाभूतः सुराणां गुरुः आत्मनः स्वस्य धियं बुद्धिं प्रकटयितुं प्रकाशीकर्तुं प्रतस्थे प्रययौ । 'समवप्रविभ्यः स्थः' (१.३.२२) इति तिष्ठतेरात्मनेपदं लिट् ॥ स इति ॥ स गुरुः पथि मार्गे गच्छन् गमनं कुर्वन्नेव करणीयं कर्तव्यं सर्वे निखिलम् अवधारयामास अनुसन्दधे, निश्चिकायेति वाऽर्थः । अथ पूर्वं इन्द्रं प्रति तथा वदन्नपि गुरुः पश्चादुत्साहवानेव शुक्राचार्यं प्रापेत्याशयेनाह ॥ अयमिति ॥ बुद्धेः नीतिशास्त्रप्रणयनोचितायाः धियः अयं कालः विनियोगकाल इत्यर्थः । चाटुवचसां चाटूक्तीनां अयमवसरः समयः स्वशिष्याणां पुरतः तदनुपयोगादिति भावः । दिशि दिशि प्रतिदिशं
यशः कीर्तिं सङ्घटयितुम् संयोजयितुं इयं वेळा अयं समयः युक्ता समुचिता ।