This page has been fully proofread once and needs a second look.

तृतीयाभ्यासः
 
૨૮૭
 
निस्सङ्ख्यस्फुरदुत्तरोत्तरचमत्कारासु धारासु ते

वाचामक्षरमक्षरं त्रिजगतीवाग्गर्वसर्वङ्कषम् ।

श्रोतुं लालयितुं पुनः प्रतिसमाधातुं च वा किञ्चिद-

प्यर्वाञ्चः क इमे वयं यदि परं देवस्य वाचां निधिः ॥७॥
 

 
परं त्विदमेकमनुस्मारयामि ।
 

 
आदिष्टं यदध्यक्षमेव नस्समस्तानां सन्धानं कुरुतासुरैरिति
शार्ङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम्
 

 
[commentary]
 
बृहस्पतिं स्तौति ॥ निस्सङ्ख्येति ॥ निष्क्रान्तासङ्ख्याया निस्सङ्ख्या:याः । 'निरादयः
क्रान्ताद्यर्थे पञ्चम्या' इति समास:सः । पर्याप्तसङ्ख्यारहिता इत्यर्थः । एवंविधा
उत्तरोत्तरमुपर्युपरि चमत्काराः विच्छित्तिविशेषाः, यासां ता इति नीलोज्ज्वलवपुरिति-
त् त्रिपदबहुव्रीहिः । तथाविधासु ते तव वाचां धारासु परम्परासु । तिस्रश्च ता
जगत्यश्चेति समानाधिकरणसमासः । 'जगती भुवने क्ष्मायाम्' इति विश्वः ।
त्रिभुवनानीत्यर्थ:थः । तासां लक्षणया तत्स्थजनानां यो वाग्गव:र्वः वाक्प्रयुक्तोऽ-
हङ्कारः वाग्भिर्वयमेव कुशला इत्यभिप्रायः । अथवा, वाचामहङ्कारः वयमेव
रमणीया इत्यभिमान इति भावः । तस्य सर्वं कषतीति सर्वङ्कषम् । 'सर्वकूला-
ब्भ्रकरीषेषु कष:षः' (3-2-42३.२.४२) इति खचि मुम् । वाम्गर्वसर्वस्वनाशकमिति भावः ।
अक्षरमक्षरं, वृक्षं वृक्षं सिञ्चतीतिवत् वीप्सायां द्विर्भावः । श्रोतुं लालयितुं बहुमन्तुं
किञ्चित् प्रतिसमाधातुं समाधानं कर्तुम् अर्वाञ्चः जघन्या इमे वयं के कथम्भूता

इत्यर्थः । देवो यदि स्वामी त्वित्यर्थः । भवानित्यभिप्रायः । स प्रसिद्धः परं वाचां
निधि:धिः निदानं वाचां खनिरिति भावः ॥ परमिति । परन्तु तथापि इदं भगवदा-
देशरूपम् । एकं केवलं अनुस्मारयामि न त्वादिशामीति भावः । 'गतिबुद्धि -
- (1-4-52१.४.५२) इत्यादिना अणिकर्तुः कर्मत्वम् । 'स्मृ आध्याने' इति धातोर्णिचि
रूपम् ॥ आदिष्टमिति ॥ समस्तानां सर्वेषां नोऽस्माकं अध्यक्षं प्रत्यक्षमेव
असुरैस्सन्धानं सन्धिधिं कुरुतेति शार्ङ्गधन्वना वासुदेवेन परमेष्ठिने ब्रह्मणे यदादिष्
टं आज्ञप्तं तेन परमेष्ठिना तुभ्यं भवते च तत्केवलमनुस्मारयामीति पूर्वेणान्वयः । फलि-